पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १४१ ) कृतेषु सर्वेष्वथ शास्रवर्त्मना यथाक्रमं पुंसवनादिकर्मसु । विशेषचिह्नैर्निजमीशितुः क्षितेर्वधुः समासन्नफलं न्यवेदयत् ॥|७८॥ | अन्वयः अथ क्षितेः ईशितुः वधूः यथाक्रमं सर्वेषु पुंसवनादिकर्मसु शास्त्रवर्मना कृतेषु (सत्सु) विशेषचिह्नैः निजं समासन्नफलं न्यवेदयत् । अथाऽनन्तर क्षितेः पृथ्व्या ईशितुरीश्वरस्य राज्ञो वधूः स्त्रीः क्रममनतिक्रम्य वर्तत इति. यथाक्रम क्रमानुसारेण सर्वेषु समप्रेषु पुसवनमादिर्येषा तानि कर्माणि संस्कारास्तेषु, पुसवनसीमन्तोन्नयने द्वावेव सस्कारो गर्भाधानसस्कारानन्तरमिति बहुवचनमत्रऽनपेक्षितम् । परन्तु तान्त्रिकविधिना तृतोयोडपि सस्कारो भवति । शास्त्रवर्त्मना धर्मशास्त्रप्रतिपादितमार्गेण कृतेषु सम्पादितेषु सत्सु विशेषचिन्है- विशिष्टलक्षणैनिज स्वीयं समासनं निकटवर्ति च तत् फल पुत्रोत्पतिरूप न्यवेदयत् सूचितवती । इस अनन्तर पृथ्वी के स्वामी की स्त्री रानी ने धर्मशास्त्र के अनुसार क्रम से पुसवन सीमन्तोन्नयन प्रभृति सस्कारो के सम्पादित होने पर, विशेष लक्षणो से, शीघ्र होने वाले अपने पुत्र रूप फल की सूचना दी । त्रिलोकलक्ष्म्येव सलीलमीक्षितः कृतद्रवैश्चन्द्रफलैरिवाप्लुतः । अदूरवाच्छलतिकाफलोदयः क्वचित्र माति स्म मुदा नरेश्वरः ||७६|| अन्वयः त्रिलोकलक्ष्म्या सलीलम् ईक्षितः इव क्रृतद्रयैः ‘चन्द्रकरैः आप्लुतः इव अदूरयाच्छालतिकाफलोदयः नरेश्वर मुदा कश्चित् न माति स्म । त्रिलोकस्य त्रिभुवनस्य लक्ष्म्या राजश्रिया सलील सविलासमीक्षितो दृष्ट इव, कृतो द्वयो जलरूपं येषां ते कृतद्रवास्तैर्द्रवीभूतैश्चन्द्रपरैश्शशीकिरणैराप्लुतोड भिषिक्त इवाडदूरे समीपस्थ एव वाञ्छालतिकाया इच्छालतायाः फलस्य पुत्ररूप-