पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(१३६ )


अलङ्कृता दुष्प्रसहेन तेजसा | रराज सा रत्नमयीषु भूमिषु ।
महागृहाणां प्रतिबिम्बडम्बरैः प्रणम्यमानेव कुलाचलैरपि ॥७१॥


अन्वयः


 दुष्प्रसहेन तेजसा अलङकृता सा रत्नमयीपु भूमिषु महागृहाणां प्रतिबिम्बडम्बरैः कुलाचलैः अपि प्रणम्यमाना इव रराज ।

व्याख्या


 दुखेन प्रकर्षेण सोढुं शक्येन दुष्प्रसहेन दुर्धर्षैेण सोढुमशक्येन वा तेजसा दीप्त्या ‘तेजः प्रभावे दीप्तौ च नले शुक्रेऽप्यतस्त्रिषु' इत्यमरः । अलङ्कृता विभूषिता सा राज्ञी रत्नमयीषु रत्ननिर्मितासु भूमिषु स्थानीयु कुट्टिमेष्वित्यर्थः । महागृहाणां प्रसादानां प्रतिबिम्बस्य प्रतिच्छायाया डम्बरैरारोपैः कुलाचलै- सप्तभिः कुलपर्वतैरपि "महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षपर्वतः । विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वता । " प्रणम्यमानेव वन्द्यमानेव रराज शुशुभे । विशालाकारत्यात्प्रासादप्रतिबिम्बेषु कुलपर्वतत्त्वारोपः । अत्रोत्प्रेक्षालङ्कारः ।

भाषा


 अत्यधिक तेज से विभूषित वह् रानी, रत्नों से निमित फरसा पर बड़े २ महल को परछाही पडने से मानो सात कुलपवंतो से भी प्रणमित हो रही हो, ऐसी शोभित हो रही थी । अर्थात् महलो की परछाही मानो पर्वत थे जो उसके चरणो पर पड रहे थे ।


कलत्रमूवींतिलकस्य मेखला-कलापमाणिक्यमरीचिभिर्दधे ।
उदेष्यतः सूर्यसमस्य तेजसः समुद्गतं बालमिवातपं पुरः ॥७२॥

अन्वयः


 ऊर्वीतिलकस्य कलत्रं मेखलाकलपमाणिभ्यमरीचिभिः उद्देष्यतः सूर्यसमस्य तेजसः पुरः समुद्गतं बालम् आतपम् इव दधे ।

व्याख्या


 ऊर्व्या पृथिव्यास्तिलकस्य भूषणस्य श्रेष्ठस्य वा नृपस्य कलत्रं भार्या ’कलत्रं श्रोणिभोर्ययोः इत्यमरः । मेखलाया रशनायाः 'स्त्रीकट्यां मेखला काञ्ची सप्तकी