पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १३४ )

बलेः समुल्लासमपाचकार यः स कारणादत्र कुतोऽपि वर्तते ।
इतीव गर्भः क्षितिपालयोषितः शशंस भञ्जन्नुदरे वलिस्थितिम् ॥६८॥

अन्वयः

 क्षितिपालयोषितः गर्भः बदरे बलिस्थितिं भजन्, यः बलेः समुद्रासम् अपाचकार सः कुतः आपि कारणात् अत्र वर्तते इति शशंस इव ।

व्याख्या

 क्षितिपालयोषितो नृपपत्न्या गर्भा गर्भस्यो वाल उदरे वलिस्यित त्रिलरेखां भञ्जनपहन् यो विष्णुर्वामनरूपो यलेर्बलिनामक्दैत्यस्य समुल्लासमौद्धत्यमपाच कार दूरीकृतवान् स विष्णुः युतोऽपिकारणात्कस्मादप्यनिर्वचनीयकारणादत्रोदरे वर्तते प्रतिवसतीति आशसेव प्रकटीचकारेव । वबयोरभेदादुत्प्रेक्षा । नाविक : पृथिवपतिरिति वचनात्तस्य राजपुत्रस्य विष्णुरूपत्व गम्यते ।


भाषा

रानी के गर्भ में का राजपुत्र, रानी के पेट पर भी त्रिवली दूर करते हुए यह द्योतित करता था मानो यहाँ पेट में किसी कारण से राजा बलि के औदत्य का भङ्ग करने वाले विष्णु के अवतार रूप वामन आये है । (अभिणी के पेट पर की त्रिवली पेट बढ़ने से नहीं दिखाई पडतो ।)

कृतावतारः क्षितिभारशान्तये न पीड्यमानां सहते महीमयम्
इतीव गर्भभरालसा शनैः पदानि चिक्षेप मृगायतेक्षणा ॥६६॥

अन्वयः

 गर्भभरालसा मृगायतेक्षणा साक्षितिभाशान्तये कृतावतारः अयं, पीड्यमानां महीं न सहते इति इव शनैः पदानि चिक्षेप ।

व्याख्या

 गर्भभरेण गर्भभारेणाऽलसा भन्यरगतिभंगस्याऽऽयत ईक्षण नेत्रे इवेक्षणे यस्यास्सा नृपस्नीः क्षितेः पृथ्वा भारः कुनृपतिकृताभ्यापविशोषस्तस्य शान्तये झरी करणाय कृतोऽवतारो येन स गृहीततनुरप कुमारो मयैव पीड्यमानां सबाध्यमानां महीं थ्व पं सहते सहिष्यत इति हेतोरिंब शनैर्मन्दं मन्दं पदानि पादान् भुवि