पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(१२३)


अन्वय:

  हे क्षितीन्द्र इयं त्वदीया दयिता पुत्रत्रितयस्य भाजनं भविष्यति । मौक्किकैः इव यदार्जितेः यशोभिः चुलिक्यवंशः शुचिताम् आयास्यति ।।

व्याख्या

 है क्षितीन्द्र हे राजन् । इयं त्वदीया तव दयिता महिषी पुत्राणां सुतानां त्रितयस्य त्रयस्य त्रिसंख्याकसुतानां वा भाजनं पात्रं भविष्यति । , मौक्तिकंरिव मुक्तामणिभिरिवाऽतिस्वच्छैः शूक्लवर्णेयैस्तवपुत्रैरर्जितानि निष्पादितानि यशोभिः कीर्तिभिः ‘यशः कतिं समज्ञा च' इत्यमर । चुलुक्यवंशश्चुलुक्यनुपाणां कुलं शुचि- तामुज्वलतां पवित्रता वाऽपास्यति गमिष्यति। श्रृगार. शुचिरुज्वलःइत्यमरः । ते त्रयः पुत्राः कुलभूषणा भविष्यन्तीति भावः । अत्रोपमालङ्कार ।

भाषा

 हे राजा तुम्हारी इस धर्मपत्नी में तुम्हे तीन पुत्र होगे । उनके द्वारा उपार्जित मोतियो की एसी स्वच्छ और शुभ्र कीर्ति से यह चालुक्यवंश उज्यल या पवित्र हो जाएगा (

निधिः प्रतापस्य पदं जयश्रियः कलालपस्ते तनयस्तु मध्यमः ।
दिलीपमान्धातृमुखादिपार्थिवप्रथामतिक्रम्य विशेषमेष्यति ।।५२॥

अन्वय:

 ते मध्यमः तनयः तु प्रतापस्य निधिः जयश्रियः पदं कलालयः (सन्) दिलीपमान्धातृमुखादिपार्थिवप्रथाम् अतिक्रम्य विशेषम् एष्यति ।

व्याख्या

  ते तव मध्यमो द्वितीयस्तनयः पुत्रस्तु ‘आत्मजस्तनयः सूनुः सुतः पुत्र' इत्यमरः प्रतापस्य प्रभावस्य ' प्रतापः प्रभtवश्च यत्तेजः' कोशदण्डजं इत्यमरः । विपिनिधानं जयधियो जयलक्ष्म्याः पदं स्थानं कलानाञ्यतु षष्टि कलानामालयो गृहं सन् दिलीपस्चमान्धाता च दिलीपमान्धातारो सूर्यवंशसमुत्पन्नो प्रतापिनो राजनो मूलं आदौ येषां ते दिलीपमान्धातृमुखा आदिपार्थिवा प्राचीननृपास्तेषां प्रथां ख्यातिमतिक्रम्य समुत्क्रम्य विशेषं विशेषतामधिकोत्कृष्टता- मेष्यति प्राप्स्यति ।