पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

व्याख्या

इति पूर्वोक्तरीत्येन्दुशेखरस्य शिवस्य प्रसादनाय प्रसन्नतासम्पादनार्थं चिरकालमुपें कठिनं व्रतं नियमं 'नियमो व्रतमस्मी तज्चोपवासदि पुण्यकम्' इत्यमरः । आश्रितम्समाश्रितः क्षितीन्द्रो राजा कदाचित्कस्मिश्चित्समये प्रभाते प्रात.या पूजाऽवनं तस्याः अवसरे नभसि गगने चरतीति नभश्चरी तामाकाशगामिर्नी भारति बाणी ‘ब्राह्मी तु भारती भाषा गीर्वाणी सरस्वती' इयमरः । आकाशवाणीमित्यर्थः । आकर्णयति स्म श्रुतवान् ।

भाषा

इस प्रकार शकर भगवान् को प्रसन्न करने में चिरकाल तक कठोर व्रत पालन करने वाले राजा ने किस दिन सवेरे की पूजा के काल में आकाशवाणा सुनी ।

अलं चुलुक्यक्षितिपालमण्डनश्रमेण विश्राम्यतु कर्कशंतपः ।
कम्प्यपूर्वे त्वयि पार्वतिपति: प्रसादमारोहति भक्तवत्सलः ॥५०॥

अन्वय:

हे चुलुक्यक्षितिपालमण्डन श्रमेण अलं, कर्कशं तपः । विश्राम्यतु, भक्तवत्सलः पार्वतिपति: त्वयि कम् अपि अपूर्वं प्रसाद् आरोहति ।

व्याख्या


हे चुलुक्यक्यस्य चुलुक्यवादस्य क्षितिपाला नृपास्तेषां मण्ड्नमाभुषणं तत्म्वुद्धौ हे चालुक्यवंशक्षितिपालमण्डन ! राजन् ! श्रमेणाऽलमतः परं व्रतादिषु परिश्रमो न.कर्तव्यः । कर्कशं कठिनं तपो नियमो विश्रम्यतु विशन्तिमेतु भक्तानां प्रपन्नानांभक्तानवत्सल'स्निग्ध: वत्सलः' इत्यमरः । पार्वत्याः पतिः शिवस्त्वपित्वद्विषये कमप्यपूर्वे धमप्यनिर्वचनीयं प्रसादं प्रसन्नतां कृपामारोहति करोति ।

व्याख्या

हे चालुक्य वशीय राजाओ केभपण ! अव परिश्रम मत करो । कठोरतप बन्द करो । भक्तवत्सल शकर ने तुम्हारे ऊपर एक अवर्णनय कृपा की है

इयं त्वदीया दयिता भविष्यति क्षितीन्द्र पुत्रत्रितयस्य भाजनम् ।
चुलुक्यवंशः शुचितां यदजितैर्यशोभिरायास्यति मौक्तिकैरिव ॥५१॥