पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ११९ )


यथा येन कारणेनाऽस्मान्नृपान्महर्षयोऽपि ब्रह्मर्षयोऽप्यपर्क्यं निम्नकोटिमाययु• प्राप्ताः । स्थण्डिल चत्वर, यागार्थ परिष्कृता भूमिस्तत्र शयनादिक महद्धृतम् ।

भाषा

 अपन ह्यथो से तोडे हुए फूलो से शंकर की पूजा करने वाले उस राजर्षि ने स्थण्डिल पर ही निवास करने से धूली से - धूसरित होकर ऐसी उग्र तपस्या की जिससे महर्षि लोग भी तपस्या में इससे नीचे हो गये ।

स सौकुमार्येकधनोऽपि सोढवाँस्तपोधनैर्दुष्प्रसहं परिश्रमम् ।
रराज तीव्रतपसि स्थितो नृपः शशीव चण्डद्युतिमण्डलातिथिः॥।४५।।
}}

अन्वयः

 सौकुमार्येकधनः अपि सः तपोधनैः दुष्प्रसहं परिश्रमं सोढवान् । तीव्रे तपसि स्थितः नृपः 'चण्डद्युतिमण्डलातिथिः शशी इव रराज ।

व्याख्या

 सुकुमारस्य भायस्सौकुमार्यं तदेव धन द्रव्य यस्य स परमकोमलाङ्गोऽपि तप एव धन येषां तैस्तपस्विभिर्दुखेन यथाकथञ्चित्प्रकर्षेण सौढ़ु शक्य सहनायोग्य मित्यर्थ परिश्रम क्लेशं सोढवानसहत । तीव्रेडत्युग्रे तपसि तपस्याया स्थितो वर्तमानो नृपो भूपतिश्चण्डद्युतिरसूर्यरतस्य मण्डलस्य चक्रवातस्य चक्वाल तु मण्डलम्' इत्यमर में अतिथिस्समीपस्थ शशी चन्द्र इव रराज शुशुभे । यथा सूर्यमण्डल गतश्चन्द्र ' कान्तिहीनो भवति तथैव परिश्रमाधिक्येन स नृपो म्लानसजात इति भाव' । अत्रोपमालङ्कार ।

भाषा

 स्वभाव से ही अत्यन्त सुकुमार होने पर भी उसने तपस्वियो मे भी अत्यन्त कठिनता से सहने योग्य क्लेश सहन किया। घोर तपस्या में लगा हुआ यह राजा सूर्यमण्डल के निकट आए हुए चद्रमा के समान म्लान दिखाई पडने लगा।

नृपं कठोरव्रतचर्यया कृशं समाहिता सा नरनाथसुन्दरी ।
निशातशोणोलिखितं ममन्वगात् प्रभेव माणिक्यमतीव निर्मला ॥४६॥
}}