पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(११६)

मेरा मन सदैव बड़ों का अपमान करने से विरत रहा है । ऐसी परिस्थिति में मेरे लिये पुत्ररूपी वस्तु प्राप्त करने का उपाय दुर्लभ नही हो सकता।


किमस्ति दुष्प्रापमसौ निपेव्यते कुलप्रभुर्वालमृगाङ्कशेखरः।
करस्थितस्यापि चकोरलोचने न पात्रमालस्यहतास्तपस्विनः ॥४०॥

अन्वयः

 असौ कुलप्रभुः बालमृगाङ्कशेखरः(यदि)निषेव्यते(तर्हि)किं दुष्प्रापम् अस्ति। हे चकोरनयने आलस्यहताः तपस्विनः करस्थितस्य अपि पात्रं न ।

व्याख्या

 असौ प्रसिद्धः कुलस्य वंशस्य प्रभुरिष्टदेवता बालोऽर्द्धो मुगङ्कश्चन्द्रः शेखरं शिरोभूषणं यस्य स शिवो यदि निषेव्यते सेवया प्रप्तन्नीक्रियते तर्हि किं वस्तु दुष्प्रापं दुर्लभमस्ति, न किमपीत्यर्थः । हे चफोरवच्चपले नेत्रे नयने यस्यास्त सम्बुद्धो हे चकोरनयने चकोरचपलनयने आलस्येनाऽकर्मणा हता आलस्यवशौ- भूतस्तपस्विनो वरका करे करतले स्थितस्य विद्यमानस्याऽपि यस्तुत्र पात्रं भाजनं न भवन्ति । कर्मशीलानामुद्योगिनां पुरुषाणां किमपि दुस्साध्यं नेत्यर्थः। अत्राऽर्यापत्यलङकारः।

भाषा

 अपने वश के इष्टदेव चन्द्रशेखर शकर की यदि उपासना की जाय तो कोई वस्तु दुर्लभ नही है । हे चकोर के समान चञ्चल नेत्र वाली ! आलस से भरे अकर्मण्य लोगो को, पास की वस्तु भी प्राप्त नहीं हो सकती है ।

तदेष तावत्तपसे सह त्वया प्रभूतभावः प्रयते यतेन्द्रियः।
विभावरीवल्लभखण्डमएडनःस यावदायाति दयां जगद्गुरुः॥४१॥

अन्वयः


 तत् प्रभूतभावः एषः (अहं) यतेन्द्रियः सन् त्वया सह तावत् तपसे प्रयते यावत् विभावरीवल्लभखण्डमण्डनः जगद्गुरुः सः दयां आयाति ।