पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ११२ )

भाषा

 हिंसक व्याघ्रादि पशु अपने किस प्रयोजन के विचार से अपने बच्चे के सरक्षण के लिये परिश्रम करते है । पुत्रे, इस वस्तु में ऐसी अवर्णनीय शक्ति है जिससे मन अत्यन्त शान्ति प्राप्त करता है ।

किमश्वमेधप्रभृतिक्रियाक्रमैः सुतोऽस्ति चेन्नोभयलोकबान्धवः ।
ऋणं पितृणामपनेतुमक्षमाः कथं लभन्ते गृहमेधिनः शुभम् ॥३४॥

अन्वयः

 उभयलोकबान्धवः सुतः न अस्ति । चेत् अश्वमेधप्रभृतिक्रियाक्रमैः किम् । पितृणां ऋणम् अपनेतुम् अक्षमाः गृहमेधिनः कथं शुभं लभन्ते ।

व्याख्या

 उभयलोकस्येहलोकस्य परलोकस्य च बान्धवस्सुखकारी सहायक इत्यर्थः ।सुतः पुत्रो नास्ति चेतहिं अश्वमेघस्तन्नाम यज्ञ प्रभृतिरादिर्यासां क्रियाणां तासां क्रमैः सम्पादनै किम् किम्फलम्। पुत्रोपत्यभावेऽश्वमेधादिसदृशानां स्वालौकिक शक्तिप्रदर्शकाणा कर्मणां सुतरामेव वैयर्थ्यं समायाति । पितृणां पूर्वपुरुषाणामृण मपनेतु दूरीकर्तुमक्षमा असमर्था गृहमेधिनो गृहस्थाः कथ शुभं मङ्गलं लभन्ते प्राप्तुं शक्नुवन्ति ।

भाषा

 यदि इस लोक और परलोक दोनो में साथ देनेवाला पुत्र न हुआ तो अश्वमेध आदि यज्ञो के करने से क्या लाभ है । पितृऋण से मुक्त होने में असमर्थ गृहस्थ लोगों का कैसे कल्याण हो सकता है ।

प्रतापशौर्यादिगुणैरलङ्कृतोऽप्युपैति तावन्न कृतार्थतां नृपः ।
सुतेन दोर्विक्रमलब्धकीर्तिना न यावदारोहति पुत्रिणां धुरि ।३५।।

अन्वयः

 नृपः प्रतापशौर्यादिगुणैः अलङ्कृतः अपि तावत् कृतार्थतां न उपेति यावत् दोर्विक्रमलब्धकीर्तिना सुतेन पुत्रिणां धुरि न आरोहति ।