पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ११० )

भाषा

 हे मृगशावकनयनि ! तुम्हारे शरीर के अवयवों में कोई कुलक्षण नहीं दीख है किन्तु तुम्हारे में इस प्रकार की पुत्र रूपी फल की समृद्धि में प्रतिबन्धक मेरे ही पूर्वजन्म का पाप है, यह बात निश्चित है ।

अवीक्षमाणा सदृशं गुणैर्मम क्रमागता श्रीरियमाश्रयं पुरः ।
पयोधिमध्यस्थितपोतकूपकस्थिता शकुन्तीव मुहुः प्रकम्पते ॥३१॥

अन्वयः

 क्रमागता इयं श्रीः मम गुणैः सदृशम् आश्रयं पुरः अवीक्षमाणा पयोधिमध्यस्थितपोतकूपकस्थिता शकुन्ती इव मुहुः प्रकम्पते ।

व्याख्या

 क्रमेण कुलक्रमेणाऽगता प्राप्तेयं श्री राज्यलक्ष्मी मम गुणैः शौर्यादिभिः सदृश समानमत एव योग्यमाश्रयमा8यभूतं स्थानं पुरोऽग्रेऽवीक्षमाणाऽनवलोकयन्ती पयोधेः समुद्रस्य मध्ये मध्यभागे स्थितो विद्यमानः पोतो यातपात्रं यानपात्रे शिशी पोतः’ इत्यमरः । तस्य कूपको गुणवृक्षको नौमध्यस्थितरज्जुवन्यनदण्डः तस्मिन् स्थितोपविष्टा शकुन्तीव पक्षिणीव मुहुरभीक्ष्णं ‘मुहुः पुनः पुनः शश्वद भीक्ष्णमसकृत्समाःइत्यमरः । प्रकम्पते बिभेति । स्थिरमाश्रयमपश्यमाणा स्वस्थितेस्सन्देहास्पदत्वाद्भीतेत्यर्थः । अत्रोपमालङ्कारः ।

भाषा

 कुल परम्परागत यह राज्य श्री, मेरे गुणो के ऐसे गुण वाले आश्रय को आगे न देखकर बीच समुद्र में विद्यमान जहाज के मस्तूल पर बैठी चिड़िया के समान रह रह कर काँपती है । अर्थात् स्थिर आश्रय न देखकर अपने अस्तित्व के सन्देह से भयभीत होती है ।

प्रियप्रसादेन विलाससम्पदा तथा न भूपाविभवेन गेहिनी ।
सुतेन निर्व्याजमलीकहासिना यथाङ्कपर्यङ्कगतेन शोभते ॥३२॥