पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १०९ )

अन्वयः

 अयं फलेन शून्यः गृहस्थाश्रमपादपः मां सुतरां दुनोति यत् अधुना अपि त्वयि सुताभिधानम् आत्मनः प्रतिबिम्बं न विलोकयामि ।

व्याख्या

 अय फलेन पुत्ररूपफलेन शून्यो रहितो गृहस्थाश्रमरूपो गार्हस्थ्यस्वरूपो धर्म पादप धर्मवृक्षो मा सुतरामत्यन्त दुनोति परितापयति । यथा वृक्ष फलेन शून्यो निष्फलत्वाय कल्पते तथैवाऽय गृहस्थाश्रमोऽपि । यद्यस्मात्कारणादधुनाऽप्यद्या वध्यपि त्वयि भवस्यासुत पुत्र अभिधान नाम यस्य त पुत्रनामकमात्मन प्रतिबिम्बप्रतिफल न विलोकयामि न पश्यामि । ‘आत्मा वै जायते पुत्र’ इति वचनात् । अद्यापि पुत्रोत्पत्तिर्नं जातेत्यर्थ । अत्ररूपकालङ्कार।

भाषा

 यह फलरहित गृहस्थाश्रमरूपीवृक्ष मुझे अत्यन्त पीडित करता है । क्यो कि अभीतक तुमसे मेरा प्रतिविम्ब स्वरूप पुत्र उत्पन्न भया हुवा नही दीख पड़ता है। अर्थात् तुम को मेरा प्रतिबिम्ब स्वरूप पुत्र नहीं हुआ है ।

अलक्षणं बालमृगाक्षि लक्ष्यते' न किञ्चिदङ्गेषु तवेदृशः परम् ।
पुराकृतः पुण्यविपर्ययो मम ध्रुवं फलर्द्धिप्रतिबन्धकस्त्वयि ॥३०॥

अन्वयः

 (हे)बालमृगाक्षि तब अङ्गेषु किञ्चित्त् अलक्षणं न लक्ष्यते पर त्वयि । ईदृशः फलर्द्धिंप्रवबन्धकः मम पुराकृतः पुण्यविपर्ययः ध्रुवम् ।

व्याख्या

 हे बालमृगाक्षि बावकुरङ्गनयने तव अङ्गेषु शरीरावययेषु किञ्चिद्यत्किञ्चि दप्यलक्षण दुलक्षणं पुत्रोस्पतिप्रतिबन्धक वन्ध्यात्वलक्षण न लक्ष्यते दृश्यते । ई.jत्वार्पल नामकस्यभून त६०दिपक्षप्रमस्फ़लष्पसद्भि- आपको मर्पण पुराङ्कत पूर्वजन्मकृत पुण्यविपर्यय सुकृतवैपरीत्य पापमित्यर्थः । ध्रुवं निश्चयेन वर्तते ।


'मुभयत' इत्यपि १७ ॥