पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १०६ )

भाषा

 जिस नगर में रोज घर २, चञ्चलनेत्रवाली कामिनियाँ, विंना जाल के कामुको के नेत्र रूपी मृगो को फंसाने वाला और कामदेव की अलिखित व अनुच्चारित आज्ञा स्वरूप ताल लय से युक्त विचित्र नाच किया करती थी।

अमुष्य लोकत्रितयाद्भुतैर्गुणैरतीत्य मार्गे मनसोऽपि तिष्ठतः।
असौ सदा मानसगोचरस्थिता कथं तुलायामलका प्रगल्भते ॥२५॥

अन्वयः

 असौ सदा मानसगोचरस्थिता अलका लोकत्रितयाद्भुतैः गुणैः मनसः अपि मार्गम् अतीत्य तिष्ठतः अमुष्य तुलाया कथं प्रगल्भते ।

व्याख्या

 असौ प्रसिद्धा सदा नित्य मानस सरश्चिन्तञ्च तस्य मानससरसो मनसश्च गोचरो देशो हिमालयप्रदेशो दृष्टिश्च तत्र स्थित विद्यमानाऽलका कुबेरनगरी, लोकत्रितये त्रिषु भुवनेषु त्रिष्वथो जगती लोको विष्टप भुवन जगत' इत्यमरः अद्भुता आश्चर्याकारिणो गुणस्तैर्मनसोऽपि चित्तस्याऽपि मार्गं पन्थानमतीत्याऽतिक्रम्य तिष्ठतो वर्तमानस्याऽचिन्त्यरूपस्याऽमुष्याऽस्य पुरस्य तुलाया साम्ये कथ प्रगल्भते समर्था भवति । अत्राऽर्थापत्तिरलङ्कारः ’ । ‘दण्ड

भाषा

 मानस सरोवर के आसपास हिमालय प्रदेश में स्थित अथवा मन से जानी जा सकने वाली अलका नामक कुबर की नगरी तीनों लोको में अद्भुत गुणो से युक्त और मन से भी कल्पना न की जा सकने वाले, इस कल्याण नगर की कैसे बराबरी कर सकती है ।

अतःपरमाद्दवमल्लदेवनृपं स्तौति ।

विजित्य सर्वाः ककुभः स भार्गवप्रचण्डकोदण्डपरिश्रमो नृपः।
उवास तत्राथिशतानि पूरयन् फलं हि पात्रप्रतिपादनं श्रियः ।२६।