पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १०३ ) व्याख्या यत्र पुरे स्मरस्य कामस्याऽस्त्राणा कोशल नैपुण्यमद्भुतमाश्चर्यकारि परि दृश्यते । तयाह्यसौ स्मर उत्पलपत्राणा कमलपत्राणा मित्रता साम्यमुपागते प्राप्तैरतिकोमलैरित्यर्थ । चारूदृशा रम्यनयनाना नारीणा बिलोचनैरक्षिभि शिलावत्पाषाणवत्कठोराणि कठिनानि धैर्यातिशययुक्तान्यपि मनासि यूना चेतासि विध्यति भिनति । कार्यकारणयोर्गुणभेदादत्र विषमालङ्कार । ‘गुणौ क्रिये वा चैत्स्याता विरुद्धे हेतुकार्ययो । यद्वारब्धस्य वैफल्यमनर्थस्य च सम्भव । विरूपयो सघटना या च तद्विषम् मतम् । भाषा इस नगर में कामदेव का अस्त्रप्रयोग का कोशल आश्चर्य जनक था। इसीलिये वह कमल के पत्तो की समानता अर्थात कोमलता को प्राप्त, सुन्दर नेत्रवाली नरियो के नैनो से पत्थर के एसे बड युवको के हृदयो को वेध देता था । समुद्रवेला रतिरत्नसम्पदा वधूतडित्ताएडवमेघमण्डली । नभःस्थली विभ्रमतारकस्रजा विभाति यत्र स्मरतल्पकल्पना ॥२१॥ अन्वयः यत्र स्मरतल्पकल्पना रतिरत्नसम्पदा समुद्रवेला, वधूतडित्ताण्डवमेघ मण्डली, बिभ्रमतारकस्रजा नभःस्थली, यिभाति । व्याख्या यत्र पुरे स्मरस्य कामस्य तल्पस्य शय्याया कल्पना रचना ‘तल्प शय्याट्टदारेषु स्तंभेऽपि विटपोऽस्त्रियाम् इत्यमर । रति कामस्त्री तत्स्वरूपा या रत्नसम्पत् तया सर्वजनहृद्यत्वाद्रते रत्नसम्पद्यभेदारोप । समदुवेला सागरतटभूमि, स्मरतल्प कल्पनायां समुद्रवेलाया आरोप, रतिस्वरूपरत्नसम्पदस्समुदवेलायां स्थितत्वात् । वधूस्यरूपतडितरताण्डव नृत्य यत्रैवम्भूता मेघमण्डली, अस्या स्मरतल्पकल्पनाया मारोपः । अत्र स्मरपत्नीरतिस्थानीया वधूरूपा तडित् । बिभ्रमेण विलासेन युक्तानां तारकाणां स्रजा मालया नभ स्थली व्योमभूमि । अत्र रतिस्थानीया सारक्स्रक् । स्मरतल्पदल्पनायां नभ रथस्याश्चारोप में विभाति शोभते । रतिस्वरूप रत्नसम्पत्तडितारस्रग्भि' समुद्रवेलामेघमण्डलीनभस्थलीनां स्मरतल्प कल्पनेति भाव. । अत्रात्प्रेक्षा गम्या ।