पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १०१ )

रोहिणपतिश्चन्द्रो यस्य पुरस्य वेश्मसु गृहेषु ‘गृहं गेहोदवसितं वेश्म सदा निकेतनम्' इत्यमरः । प्रविश्य गत्वा महान्तं विशिष्टं गुणं चमत्कारं लाभमित्यर्थः प्राप्नोति अत्र संशयः सन्देहो नास्ति । यद्यस्मात्कारणादेष चन्द्रः पुरन्ध्रीणा नारीणा वकत्रेन्दूनां मुखचन्द्राणां सहस्रस्य मध्यं गच्छतीति पुरन्ध्रिवक्तेतेन्दुसहस्र- मध्यगः सन् स्त्रीमुखेन्दुसहस्रमध्यवर्तित्वाद्राहोरलक्ष्यतामपरिभाव्यतामुपयाति प्राप्नोति । चन्द्रबाहुल्याद्वास्तविकचन्द्रपरिचयाभावादपरिभाव्यतामुपयातीfत भावः । अत्र सामान्य नाम अलङ्कारः । ‘सामान्यं प्रकृतस्याऽन्यतादात्म्यं सदृशैर्गुणैः ।

रोहिणी के पति चन्द्रमा को इस नगर के घरों में प्रवेश कर बहुत लाभ होता था इसमें सन्देह नही। क्योकि राहू हजारो स्त्रियो के मुखचन्द्रो के

बीच में इसके रहने से, इसको नही पहचान पाता था ।

यदीयसौधध्वजपट्टपट्टिकाः समुच्चलन्मौक्तिककान्तिनिर्झरैः। नभस्तलान्दोलनविभ्रमाह्रतं विनिक्षिपन्तीव सुरापगापयः ॥१८॥

अन्वयः

यदीयसौधध्वजपट्टपट्टिकाः समुच्चलन्मौक्तिककान्तिनिर्झरैः नभस्तलान्दो लनविभ्रमाहृतं सुरापगापयः विनिक्षिपन्ति इव ।

यदीयेषु यत्पुरसम्बग्घियु सोधेषु राजसदनेषु ‘सौधोडस्त्रि राजसदनम् इत्यमरः । ध्वजाः पताकाः पताका वैजयन्ती स्यात्वेतनं ध्वजमस्त्रियाम्' इत्यमरः । तेषा पट्टस्य कौशेयस्य पट्टिका वस्त्राणि समुच्चलन्ति प्रकम्पमानानि ध्वजपटप्रान्तभागविनिविष्टानि मौक्तिकानि तेषा कान्तिनिर्झरैः प्रभाप्रवाहैः ‘प्रवाहो निझरो झर' इत्यमर नभस्तले व्योम्नि आन्दोलनस्येतस्ततः सचलनस्य विभ्रमेण विलासेनाऽह्नत समाकृष्ट सुरापगायाः स्वर्गङ्गाय। पयो जलं विनिक्षि । अत्रोत्प्रेक्षालङ्कारः ।