पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ९९ )

कर्मणि विषये क्षमं समर्थ निरीक्ष्य विलोक्य भवाय शिवाय शिवेन सह युद्दकरणार्थ तस्य वशीकरणार्थ वा भूयः पुनः धनं कार्मुकं परिबोध्यते सज्जीक्रियते । एण चक्षुषां साहाय्येन साफल्यं निश्चितमिति धियेति भावः । अत्र वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः ।

भय

जिस नगरी की मृगनयनी स्त्रियो के हावभावो को तीनो लोको को वश कर लेने में समर्थ समझ, शंकर की हार का स्मरण रखने वाला कामदेव मानो शिव को हराने या वश में करने के लिये फिर अपना धनुष तयार कर रहा है। अर्थात् इन मृगनयनियो की सहायता से अब शंकर को वश में कर लेना सरल है, ऐसे विचार से फिर से धनुष तयार किया।

स्मर-प्रशस्तिप्रतिवस्तुतां गताः सलीलदात्यूहसमूहनिस्वनाः। भवन्ति यत्र क्षणमात्रविश्रम-प्रदायिनः कण्ठरवेषु योषिताम् ॥१५॥

अन्वयः

यत्र स्मरप्रशस्तिप्रतिवस्तुतां गताः सलीलदात्यूहसमूहनिस्वनाः योषितां कण्ठरवेषु क्षणमात्रविश्रमप्रदायिनः भवन्ति ।


यत्र पुरे स्मरस्य कामस्य प्रशस्तिः कीर्तिप्रशंसा तस्या. प्रतिपस्तुता तत्पर्याय रूपत्वं गता | प्राप्ता लीलया विलासेन सहितास्वलोला दात्यूहा जलकाकाः पक्षिविशेषाः ‘दात्यूहः कालकण्ठक.' इत्यमरः । तेषा समूहस्य निस्वना” शब्दा योषिता स्त्रीणा कण्ठरवेषु भाषणकार्येषु गतेषु वा क्षणमात्रमीयत्कालपर्यन्तं विश्रमं शान्ति प्रददतीतिविश्रमप्रदायिनो शान्तिदातारो भवन्ति । तप्रत्यानां नारीणां शब्दो दात्यूहकूजितवन्मधुर इति व्यज्यते । उपमाध्वनि ।

जिस नगरी में कामदेव की विरुदावलिस्वरूप पिहकने वाले पपीहा के शब्द, स्त्रियों के बोलने या गाने में उनकी आवाज थोड़ी देर के लिये बन्द कर उन्हे विश्राम देते हैं । अर्थात् पपीहो के शब्द के समान मनहर उन स्त्रियो की कण्ठध्वनि थी।