पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ९३ )

जलाशया यत्र हसन्ति सन्ततं नवेन्द्रनीलद्रवनिर्मलोदराः।
शरत्समुत्सारितमेघकर्दमं कलिन्दकन्याहदमेचकं नभः ॥६॥

अन्वयः

 यत्र नवेन्द्रनीलद्रवनिर्मलोदराः जलाशयाः शरत्समुत्सारितमेधकर्दमं कलिन्दकन्याह्रदमेचकं नभः सन्ततं हसन्ति ।

व्याख्या

 यत्र कल्याणकटकनामकनगरे नवो नूतन इन्द्रनीलमणीनां द्रवो हुतपदार्थतद्व न्निर्मलं मलरहितमुदरं मध्यं येषां ते जलाशयाः सरासि शरदा शरदृतुना समुत्सारित दूरीवृता भैषा एव कर्दमाः पङ्काः यस्मात्तत् कलिन्दकन्याया यमुनाया ह्लदोऽयाधपयस्तद्वन्मेचकं कृष्णवर्णं नभ आकाश सन्ततं सततं हसन्ति स्वशोभया तिरस्कुर्वन्ति । शरदृतो नभसि मेघा न दृश्यन्ते जले च पङ्करा- हित्यान्नैर्मल्य जायते । अत्र जलाशयानां नभसा सादृश्यप्रतीत्योपमाया हसन्तीति पदेन व्यङ्गघत्वम्

भाषा

 जिस कल्याणकटक नगर में नये इन्द्रनील मणियो के द्रव के समान स्वच्छ स्तर वाले जलाशय, शरद ऋतु के आने पर मेष रूपी कीचड से रहित ओर यमुनानदी के अगाध जल के समान नीले रग के आवास की हँसी उड़ाते है । अर्थात् उन जलाशयो की नीलिमा आकाश की तीलिया से सुन्दर थी।

प्रकर्षयत्या कपिशीर्षमालया यदुद्भटस्फाटिकवप्रसंहतिः ।
विलोकयत्यम्बरकेलिदर्पणे विलासधौतामिव दन्तमण्डलीम् ॥७॥

अन्वयः

 यदुद्भटस्फाटिकवप्रसंहतिः प्रकर्णावत्या कपिशीर्षमालया विलासधौतां दन्तसमण्डलीम् अम्बरकेलिदर्पणे विलोकयति इव ।

व्याख्या

 {{bold|यस्य कल्याणपुरस्योद्भटा बृहती स्फाटिका स्फटिकमणिशिलानिर्मिता वप्रस्य प्राकारस्य सह तिः सन्तति: श्रेणिः प्रकर्षयत्याडत्युन्नतया कनिशीर्षाणि प्राकारस्यो-