पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ९२ )

 मृतपानं करोतीत्यर्थः । चन्द्रतोऽप्यधिककान्तिमन्मुख्यः स्त्रिय इति भावः । । अत्र सापन्हव गम्योत्प्रेक्षा तत उपमानापेक्षयोपमेपस्य गुणाधिक्यप्रतीत्या व्यतिरेकध्वनिश्च ।

भाषा

 जिस नगर में रात्रियो में विलास में हिलने वाले कर्णो के आभूषण से युक्त स्त्रियो के कपोल स्थल में चन्द्रमा अप्रत्यक्ष रूप से, प्रतिबिम्ब के बहाने से प्रविष्ट होकर उनके लावण्यामृत का पान करता है । अर्थात् उन स्त्रियो के मुख, चन्द्रमा से अधिक कान्तियुक्त थे।

गतोऽपि यत्र प्रतिविम्बवर्त्मना समीपतां वञ्चयितुं प्रगल्भते ।
मुखानि जाग्रन्मदनानि सुभ्रुवां सयामिकानीव न यामिनीपतिः ॥५॥

अन्वयः

 यत्र यामिनीपतिः प्रतिबिम्बवर्त्मना समीपतां गतः अपि जाग्रन्मदनानि सयामिकानि इव सुभ्रुवां मुखानि वञ्चयितुं न प्रगल्भते ।

व्याख्या

 यत्र पुरे यामिन्या । रात्रेः पतिः स्वामी चन्द्रः 'विभावरीतमस्विन्यौ रजनी यामिनी तमी' इत्यमरः । प्रतिबिम्बवर्त्मना प्रतिबिम्बमार्गेण प्रतिबिम्बव्याजेन वा समीपतां सामीप्यं गतोऽपि प्राप्तोडपि जाग्रन्मदनः कामो येषु तानि समुद्दीप्तः मग्मयानीति भावः । अतएव यामिकैः प्रहररक्षकैः सहितानि युक्तानीव सुभ्रुवां कामिनीना मुखान्यास्यानि वञ्चयितुं प्रतारयितुं न प्रगल्भते न समर्थो भवति । अत्र नूतनहेतुकल्पनया काव्यलिङ्गमलङ्कारः हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गं निगद्यत्ते ।

भाषा

 जिस पुर में, चन्द्रमा, प्रतिबिम्ब के बहाने से समीप आने पर भी कामोद्दीपन से मस्त कामिनियो के मुखो की, पहरा देने वाले के समान कामदेव के वहां जागते रहन के कारण, ठग नही सकता था । अर्थात् अपनी सौभाग्यसम्पत्ति तभा सौन्दर्य से उन कामिनीयो के मुखो को नीचा नहीं दिखा सकता था ।