पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ८७ )


कौन २ दुख लिखे है इन अक्षरों को पढ़ने के लिये चीर डाला। अर्थात् भय से काटो में से भागते २ उसके ललाट का चमडा कट गया ।


दहत्यशेषं प्रतियोगिवर्गमनर्गले यद्भुजशौर्यवन्हौ ।
प्रत्यथिंपृथ्वीपतिचिन्त्यमानो न कोऽपि मन्त्रः प्रतिबन्धकोऽभूत् ।११७।

अन्वयः

 अनर्गले यद्भुजशौर्यवन्हौ अशेषं प्रतियोगिवर्गं दहति(सति) प्रत्यर्थेि पृथ्वीपतिचिन्त्यमानः कः अपि मन्त्रः प्रतिबन्धकः न अभूत् ।

व्याख्या

 मास्त्यर्गलं प्रतिबन्धकं यस्मिन्तस्मिन् यस्य राज्ञो भुजस्य शौर्यरुपाम्नौ वीर्यरूपबन्हावशेष समग्र प्रतियोगिवर्ग शत्रुसमूहं दहति भस्मसाद्भवति सति प्रत्ययिपृथ्वीपतिभि शत्रुभूतराजभिश्चिन्त्यमानो विचार्यमाणः स्मृतः कोऽपि मन्त्रः काऽपि मन्त्रशक्ति, षड्गुणाः-शक्तयस्तिस्र. प्रभावोत्सहमन्त्रजा’ इत्यमरः । वन्हिशामकमन्त्रश्च यथा-उत्तरस्मिश्च विग्भागे मरीचो नाम राक्षस । तस्य मूत्रपुरीपरभ्य हुतस्तभ्भः प्रजायते' । प्रतिबन्धकः प्रतिरोधको माऽभूत् । मन्त्रेण वन्हि प्रतिबध्यते मन्त्रशषत्या च राज्य रक्ष्यते । भुलशौर्यं वनह्नित्वारोपाद्रूपकम् । शौर्यव्यवहारे वन्हिव्यवहारस्याऽप्यभेदप्रतिपत्तिः ।

भाषा

 जिस राजा की अप्रतिहत भुजबल रूपी अग्नि में सब शत्रुओ से जलते रहने पर अर्थात् उसके भुजबल से शत्रुओं का नाश होते रहने पर, विपक्षी राजाओ द्वारा प्रयुक्त पाड्गुण्यादि उपाप या "उतरस्मिश्चेदिदग्भागे मरीचो नाम राक्षस । तस्य पूत्रपुरीपाभ्या हुतस्तम्भ प्रजायते” सदृश अग्निस्तम्भक मन्त्र उस अग्नि का शामक न हुवा । अर्थात् उस राजाको विपक्षी राजाओ को परास्त करते रहने से रोकने में विपक्षियो का कोई उपाय सफल न हुआ ।

ब्रूमस्तस्य फिमस्रकौशलविधौ देवस्य विक्रामतः
             पुष्पेषोरिव यस्य दुष्परिहराः सर्वैस्खर्वाः शराः ।
राज्ञामप्रतिभानमेव विदधे युद्धेषु यस्योजित
             ज्यानिष्ठ्यूतनितान्तनिष्ठुररवप्राप्तग्रवादो भुजः ॥११८॥