पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ७७ )

व्याख्या

 पृथ्व्या भूमेर्भुजङ्ग पतिः कामुकश्च तस्य पृथिवीश्वरस्य निरर्गलेन निष्प्रतिबन्धेन कलहेन विवादेन युद्धेन च विशीर्णौ कर्णौ यस्याः सा, विशीर्णो नष्ट कर्णस्तन्नामधेयो नृपो यस्याः सा च च्छिन्नकर्णा डाहलानां डाहलदेशीयनृपाणां (डाहलदेशश्चेदीदेशादभिन्नः ।) श्री राजलक्ष्मीः कर्पूरस्य यत्ताडङ्कं कर्णभूषणं ताटङ्कमपि पाठ' तन्निर्भैस्तत्समानैर्यशोभि कीर्तिभिरधुनाप्यद्य यावन्न सङ्गच्छते न मिलति न शोभत इत्यर्थः।कर्णाभावात्तदभूषणाभावस्तत्कौर्त्यनभावश्च । यशसः कर्पूरताटङ्केनसादृश्यादुपमा ।

भाषा

 उस राजा के या कामुक के बिना रोक टोक के युद्ध से अथवा अत्यधिक झगडा हो जाने से डाहल के राजा कर्ण के मर जाने के कारण या दोनों कान कट जाने के कारण, डाहल देश की राजलक्ष्मी, कपूर के बने हुए या कपूर के ऐसे श्वेत कर्णभूषण के समान यशो से अभीतक शोभित नही होती है ।  पाठान्तरम्-भङ्ग्यन्तरेण तदेव वर्णनं, न तु पाठ भेदः-  उसी भाव को कविं दूसरे प्रकार से वणित करते है ।

कर्णे विशीर्णे कलहेन यस्य पृथ्वीभुजङ्गस्य निरर्गलेन ।
कीर्तिः समाश्लिष्यति डाहलोर्वी न दन्तताडङ्कनिभाधुनापि ॥१०३॥

अन्वयः

 यस्य पृथ्वीभुजङ्गस्य निरर्गलेन कलहेन कर्णॅ विशीर्णे (सति) दन्तताडङ्कनिभा कीर्तिः अधुना अपि डाहलोर्वी न समाश्लिष्यति ।

व्याख्या

 यस्य प्रसिद्धस्य पृथ्वीभुजङगस्य पृथ्वीपते: कामुकस्य वा निरर्गलेन कोलाहलसम्पन्नेनन कलहेन विवादेन युद्धेन वा कर्णे तन्नामके डाहलनृपे श्रोत्रे या विशीर्णे मृते वा त्रुटिते सति दन्तताडङ्गनिभा गजदन्तनिर्मितकर्णभूषणवच्छुभ्रा कीर्ति रघुनाऽपि चाहलोर्वी डाहलदेश न समाश्लिष्यति नाऽऽलिङ्गति । गजदन्तताडङ्केन कीर्तेर्धावल्येन साम्यादुपमा । भुजङ्गकर्णपदयोः श्लिष्टत्वात्कामिनी रूपाप्रकृतार्थेन डालोर्वीरूपप्रकृतार्थस्योपमानोपमेयभावो इयङ्ग्यः । एवं भुजङ्ग- पदवाच्ययोरपि । तथा च शब्दशक्तिमूलध्वनिः समासोक्तिर्वा ।