पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ७६ )

रो भयभीत कली, एक क्षण के लिये भी इस राजा पर अपनी कुटिल दृष्टि नही डालता था ।

अन्यायमेकं कृतवान् कृती यश्चालुक्यगोत्रोद्भववत्सलोऽपि ।
यत्पूर्वंभूपालगुणान्प्रजानां विस्मारयामास निजैश्चरित्रैः ॥१०१॥

अन्वयः

 चालुक्यगोत्रोद्भववत्सलः अपि कृती यः एकं अन्यायं कृतवान् यत् निजैः चरितैः प्रजाना पूर्वभूपालगुणान् विस्मारयामास ।

व्याख्या

 चालुक्यगोत्रे चालुक्यवशे उद्भव उत्पतियैर्षा राज्ञा तेषु वत्सल स्निग्धो भक्त इत्यथ स्वकुलत्पन्नपूर्ववर्तिनृपाणा भक्तोऽपि ‘लक्ष्मीवान लक्ष्मण श्रील श्रीमान् स्निग्धस्तु वत्सल' इत्यमर । कृतो कार्यकुशल पुण्यवांश्च यो राजाऽड हवमल्लदेव एकमन्यायमनुचितकार्यं कृतवान् यद्यस्मात्कारणान्निजैस्स्वीर्यैश्चरित्रै रूत्कृष्टगुणं प्रजाना जनाना षष्टी शेषे-इत्यनेन' प्रजानामित्यत्र सम्बन्धसामान्ये षष्ठी । पूर्बभूपालगुणान्स्ववशजपूर्ववर्तिनृपगुणान् विस्मारयामास । अस्य गुणोत्कर्षेण भूतपूर्वर्नृपा विस्मृत इत्यर्थं । एकस्याऽन्यायकार्यस्य विघानादादौ निन्दाया प्रतीति पर्यंवसाने तु राज्ञ प्रभावप्रशंसा प्रतीयते । अत्र व्याजस्तुति रलङ्कार । ‘व्याजस्तुतिर्मुखे निन्दास्तुतिर्वा रूढिरत्ययेति ।

भाषा

 पुण्यात्मा, सार्थकुशल उस राजा ने चालुक्यवशीय प्राचीन राजाओं में श्रद्धा भकिन रखते हुये भी एक यह अन्याय किया था कि अपने उत्कृष्ट गुणो से प्रजाओं को पूर्ववर्ती राजाओं के गुणो वा वुिस्मरण करा दिया था। अर्थात् पूर्ववर्ती राजाओ से यह आहवमल्लदेव अधिक गुणी था।

विशीर्णकर्णा कलहेन यस्य पृथ्वीभुजङ्गस्य निरर्गलेन ।
संगच्छतेऽद्यापि न डाहलश्रीः कर्पूरताडङ्कनिभैर्यशोभिः ॥१०२॥

अन्वयः

 यस्य पृथ्वीभुजङ्गस्य निरर्गलेन कलहेन विशीर्णकर्णा डाहल श्रीः कर्पूर ताडङ्कनिभैः यशोभिः अद्यापि न सङ्गच्छते ।