सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ श्रीमद्युमीकिरामायणम् । [ युद्धकाण्डम् ६ संस्थितं पर्वताग्रेषु निर्दरेषु गुहासु च ॥ समुद्रस्य च तीरेषु वनेषुपवनेषु च ॥ ११॥ तरमाणं च तीर्थं च तर्तुकामं च सर्वशः ॥ निविष्टं निविशच्चैव भीमनादं महाबलम् । तद्धलार्णवमक्षोभ्यं ददृशाते निशाचरौ ॥ १२ ॥ तौ ददर्श महातेजाः पुंच्छनौ च विभीषणः । आचचक्षेऽथ रामाय हीत्वा शुकसारणौ ॥ १३॥ तैयेमौ राक्षसेन्द्रस्य मन्त्रिणौ शुकसारणौ । लङ्कायाः समनुप्राप्तौ चारों परपुरंजय ॥ १४ ॥ तौ दृष्ट्वा व्यथितौ रामं निराशौ जीविते तदा ॥ कृताञ्जलिपुटौ भीतौ वचनं चेदमूचतुः ॥ १५॥ आवामिहागतौ सौम्य रावणप्रहितावुभौ ॥ परिज्ञातुं बलं छैत्स्नं तवेदं रघुनन्दन ॥ १६ ॥ तयोस्तद्वचनं श्रुत्वा रामो दशरथात्मजः। अब्रवीत्प्रहसन्वाक्यं सर्वभूतहिते रतः ॥ १७ ॥ यदि दृष्टं बलं छेत्स्नं वैयं वा सुपरीक्षिताः । यथोक्तं वा कृतं कार्यं छन्दतः प्रतिगम्यताम् ॥१८॥ अथ किंचिददृष्टं वा भूयस्तद्रष्टुमर्हथः । विभीषणो वा कात्येन ब्रूयः संदर्शयिष्यति ॥ १९ ॥ न चेदं ग्रहणं प्राप्य भेतव्यं जीवितं प्रति । न्यस्तशस्त्रौ गृहीतौ वा न दूतौ वधमर्हथः ॥ २० ॥ भृच्छमानौ विमुचैतौ चारों रात्रिंचरावुभौ ॥ शत्रुपक्षय सततं विभीषण विकर्षणौ ॥ २१ ॥ प्रविश्य नगरीं लङ्कां भबयां धनदानुजः । वक्तव्यो रक्षसां राजा यथोक्तं वेंचनं मम ॥ २२ ॥ यद्धनं च समाश्रित्य सीतां मे हृतवानसि । तद्दर्शय यथाकामं ससैन्यः सहबान्धवः ॥ २३ ॥ श्वः काल्ये नगरीं लङ्कां सप्राकारां सतोरणाम् ॥ ऍक्षसं च बलं पश्य शरैर्विध्वंसितं मया ॥२४॥ क्रोधं भीममहं मोक्ष्ये सँसैन्ये त्वयि रावण । श्वः काल्ये वजवान्वजं दानवेष्विव वासवः ।।२५। गच्छेतां नाज्ञासिष्टां ॥ १० ॥ अज्ञानहेतुमाह । भूतहिते रतः रिपूणामपि वरसळः ॥ १७॥ यथोक्तं सार्धश्लोकद्वयेन-संस्थितमिति ।। निर्दरेषु दलितपर्व- | रावणेन यथोक्तं । छन्दतः यथेच्छत ॥ १८ तप्रदेशेषु । उपवनेषु आरामेषु। ‘‘आरामः स्यादुपवनं’ | अथेति पक्षान्तरे । भूयः अतिशयेन । । १९ ॥ दूतौ इत्यमरः ॥ ११-१२ ॥ अथ विभीषणः ददर्श । युवामितिशेषः ॥ २० विभीषणं प्रत्याह--पृच्छ आचचक्षे चेत्यन्वयः ॥ १३॥ लङ्काया इति पञ्चमी । | मानाविति । सततं पृच्छमानत्वदशायामपि शत्रुप- परपुरं जयतीति परपुरंजयः । ‘’ संज्ञाय धृतुवृजि- |क्षस्य विकर्षणौ बाधकाविति यावत् । २१ । पुन- धारिसहितपिदमः + इति खच् ॥ १४–१६ ॥ | ठूतौ प्रत्याह-प्रविश्येति ।। २२ ।। यथाकामं यथेच्छं। शरथात्मजः महापुरुषप्रसूतत्वेन सहजकारुण्यः । शरणं वाऽऽगच्छेति भावः ।। २३ । श्वः काल्ये प्रहसन् रावणबुद्धिमान्द्यस्मरणात् प्रहासः। सर्व- परेद्युः प्रातःकाले ॥ २४ ॥ क्रोधं मोक्ष्ये क्रोधकार्यं तस्मिन् ॥ ६ ॥ स७ बलार्णवं अर्णवशब्दस्यनपुंसकतानुपूर्वव्युत्पादितानुसंधेया ॥ १२ ॥ ति० प्रहसन् सेतुबन्धनेनजनस्थाने निरपेक्षखरादिवधेनचनमद्वलज्ञानंवृत्तमितिप्रहासः ॥ १७ ॥ ति० वयमितिरामेणनिर्देशः सुप्रीवादिसहितस्यस्खस्य । सुसमा हिताः ज्ञातबलाः ॥ स० सुसमीक्षिताः अतिसम्यगवलोकिताः । वयंवासुसमाहिताइतिपाठे सुसमाहिताः स्वस्थचित्ताः प्रतिभ टभीतिरहिताइतियावत् । दृष्टमिति विपरिणतंसदृष्टाइत्यन्वेति । ‘‘ अस्मदोद्वयोश्च ” इतिवयमितिसंभवति । ननुनसंभवतिसविशे- षणदितिचेन्न । ‘‘ नचविदितवेद्याअषिवयं ” « शैवावयंनखलुतत्रविचारणीयंपञ्चाक्षरीजपपरानितरां ॐ इत्यादिवद्विधेयविशे- षणवाददोषः । असुसमाहिताः रावणंसगणंतृणीकृत्यानवधानेनैवस्थिताइतिचा। प्रतिगम्यतां स्वस्वामिसंनिधिं ॥ १८ ॥ ति० न्यस्तशस्त्रखावेकैकमप्यवधहेतुः किमुसमुदितमितिभावः ॥ २० ॥ ती० सततंपृच्छमानौ अभयंपृच्छन्तौ ॥ २१ ॥ [ पा० ] १ ङ.झूठ. तत्स्थितं. २ ख. ग.ट. प्रतिच्छन्नौ. ३ ङ, ट. तस्यैतौ. ४ ङ. झ. सधैतदिदं. ५ क. ग. इ. झ. ट. सर्वे. ६ क. ग. च. छ. अ. ट. ठ. वयंवासुसमीक्षिताः. ड. झन् वयंवासुसमाहिताः. घ. वयंसाधुसमीक्षिताः ७ ङ. झ. ट. पुनः . ८ च. छ. अ. नचात्मग्रहणं. क. खर नचात्रः ९ ङ. झ. झ. ट. प्रच्छन्नौच. १० च. छ. अ. वचनान्मम. ११ ख. राक्षसंस्खबलं. ग. राक्षसंस्खजनं, क. घञ् ङ, झ. ट. रक्षसांचबलं च. छ. रक्षसांस्खबलं. १२ क. --घ, च. ज. अ, घोरंशेषमहं १३ ग. बलंधारयरावण.