पृष्ठम्:वाग्व्यवहारादर्शः.djvu/८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७८
वाग्व्यवहारादर्शः

शौचमनुरागः स्थितिर्धृतिः । परीक्ष्य च गुणान्नियमिति (८३।२१) स्मर्यते । तत्र धैर्यं महत्यामप्यापदि चित्तस्यानवसादः। धृतिर्धारणसामर्थ्र्यमिति विशेषमुन्मेषयति नीलकण्ठः। साध्विदं विवेचनमिति भाति । धीरस्य धृतिमतः कर्मधैर्यं भवति । धृतिस्तु वृत्तिविशेषः, तेन धृतिधैर्ययोर्जन्यजनकभावः सूपपन्नो भवति । धृतिः कारणं धैर्यं कार्यमिति । इदं चान्यत्र शान्तिपर्वणि” (.१६२|१९) धृतिर्नाम सुखे दुःखे यया नाप्नोति विक्रियामिति वचनेन भूयः पोषमेति । चरके विमानस्थानेऽनुमेयार्थाननुक्रामन्नह -धैर्यमविषादेन, धृतिमलौल्येन विद्यादिति । तत्र धैर्यं विपद्यपि मनसोऽदैन्यमिति चक्रपाणिः । अत्र धैर्यं नामः विषादप्रतिरोधी गुणः, धृतिश्च चापलप्रतियोगिनीति विशेषो विवक्षितो भाति ।

 दरी तु कन्द्रो वा स्त्रीत्यमरोऽपठीत् । अत्राप्यर्थविशेषोस्ति रामायणे संनियोगेन प्रयोगदर्शनात् । तद्यया । विचरन्ति वनान्तेषु तानि द्रक्ष्यसि राघवसरित्प्रस्रवणप्रस्थान् दरीकन्दरनिर्झरान् ॥ इति । तत्र दरी पाषाणनिभेदः कन्दरा गिरिगुहेति विशेषमुत्पश्यति तिलककारः । इमं च विशेषं कवयो नाद्रियन्त इत्यन्यदेतत् । तथा च वैराग्यंशतके भर्तृहरिः कन्दरवचनं दरीशब्दं प्रयुङ्क्ते-- एका नारी सुन्दरी व दरी वेति

 अश्रुबाष्पयोरिति पर्याययोरपि सुस्थितो विभेदः । कण्ठः स्तम्भितबाष्पवृत्ति कलुष इत्यत्र शकुन्तलेऽश्रुणः पूर्वावस्था वाष्पमिति राघवभुट्टः। नेदमुत्प्रेक्षात्रम् । रामायणेऽश्रुबाष्पयोः संहप्रयोगोपलम्भात् । तद्यथा । अश्रूणि मुमुचुः सर्वे बाष्पेण पिहितानना इति ( २|४८|३ ) । अन्यत्रापि रामायणे ( २|९९|२ ) बाष्पकृतः कण्ठरोध उदीरितः । तद्यथा । बाष्पैः पिहितकण्ठैश्च प्रेक्ष्य रामं यशस्विनमिति । तेनाश्रुप्रवाहोश्रुपातो वा भवति न जातु ब्राष्पप्रवाहो बाष्पपातो वेति । मेघदूते ( १|१२) तु स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमुष्णमिति वाष्पाशृणोरभेदेन प्रयोगश्चिन्त्यः ।

 विषगरौ समनार्थौ प्रतिपन्नौ । तथा चामरः--;क्ष्वेडरतु गरलं विषमितिः । पठति । गरगरलयोस्तु न विशेषः कश्चिदस्ति श्यामश्यामलवत् । अन्यत्र लिङ्गभेदात् । इदं तु विमृश्यं विषगरयोः सोस्त्युत नेति । अस्तीति ब्रूमः । तयोः साहचर्येण प्रयोगदर्शनात् । चरके सूत्रस्थाने तस्यायुर्वेदस्याङ्गान्यष्टौ । तद्यथा । कायचिकित्सा शालाक्यं शल्यापहर्तृकं विषगरवैरोधिकप्रशमनं भूतविद्याकौमारभृतकंरसायनानि वजीकरणम् इति । तत्र गरः कालान्तरंप्रकोपि विषम् इति चक्रपाणिर्व्याचष्टे । तत्रैव चान्यत्र जठरामगरार्दिता इति पाठं विवृण्वानः स एव गरः कृत्रिमं विषमित्याह ।