पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३४
वाग्व्यवहारादर्शः

३२६-प्रतिपक्षिणों दुरुत्तरेऽप्यभ्युपगमवादेन तदङ्गीकृत्य प्रकारान्तरेण व्यवस्थापने दुर्जनतोषन्यायः प्रवर्तते ।
३२७–लोकाः खलु लोभस्य संमुखे धर्मस्य बलिं ददति प्रायेण ।
३२८-गतो वनं श्वो भवितेति रामः शोकेन देहे जनतातिमात्रम् । ( भट्टौ ३११)
३२४- अहो बतानर्थसङ्घोऽस्मानुपनतः कथमतो निर्मोक्षः स्यात् ।
३३०- क्रूरं तस्य समाचारमाकर्णितवतो मे चक्षुषः शोणितमवतरति ।
३३१-धूमबहुलास्तमस्विन्यो घटा गगनं स्थगयन्ति ।
३३२–स समयः कथं कथमपि निष्क्रान्तः वयं च प्रासराम ।
३३३-जीविकासमस्या दैनन्दिनं जटिलायमानेव दृश्यते ।



३२६- प्रतिपक्षिणो दुष्टमप्युत्तरमभ्युपगमवादेनाङ्गीकृत्य प्रकारान्तरेण तस्य व्यवस्थापन इत्यादिरुपन्यासोऽनवद्यः स्यात् । दुरुत्तर इति भावलक्षणा सप्तमी प्रयुक्ता । न तु विषयसप्तमीति विस्पष्टम् भावलक्षणायाश्व सप्तम्या नैष विषयः । तत्र हि यस्य -भावेनान्यस्य तद्व्यतिरिक्तस्य भावो लक्ष्यते तत्र सप्तमी विधीयते । अत्र दुरुत्तरसद्भावेन स्वस्यैवाङ्गीकाररूपो भावो लक्ष्यते । प्रपञ्चितोऽयं विषयः पूर्वार्द्ध इति तत एव विशेषोऽवधार्यः ।
३२७-लोभाय धर्मं बलिं ददतीति वक्तव्यम् । सुमुखे इति व्यर्थम् । धर्मस्येति षष्ठी दुरूपपादा । धर्म एव बलिर्न तु धर्मसम्बन्धी कश्चिद् बलिर्नाम ।
३२८-गत इति भूतकालः श्वो भवितेति भविष्यत्कालेन सम्बध्यमानः साधुः ।
धातुसम्बन्धे प्रत्ययः( ३।४।१ ) ।
३२९-समैर्वर्गः सङ्घसार्थो तु जन्तुभिरित्यमरात्सङ्घ इति प्राणिसमुदाये रूढः । तेनानर्थसंनिपात इति वक्तव्यम् ।
३३०-चक्षुषी क्रोधताम्रे भवत इति वा रोषारुणिते इति वा वक्तव्यम् ।
३३१-करिणां घटना घटेति कोषात्करिसमुदाय एष शब्दो रूढः: मेघमालायां सु कादम्बिनीति प्रयुज्यते । तेन तमस्विन्यः कादम्बिन्य इति. निर्देष्टं स्यात् ।
३३२- निष्कान्त इति निःसृतो बहिर्गत उच्यते । अतीतोऽतिक्रान्तो व्यपगत इत्यादिष्वन्यतमं प्रयोज्यम् ।
३३३-समस्येव समस्येत्यौपमिकः प्रयोगः साधुः । दैनन्दिनमिति तु न क्वचित्प्रयुक्त-पूर्वम् इति नादृत्यम् । दिने दिने, दिनाद् दिनम् अनुदिनमिति वा वक्तव्यम् ।



      १. अनुदिनभित्यर्थं विवक्षति ।