पृष्ठम्:लीलावती.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वासनासहिता | ७७

अथाक्षेत्रलक्षणसूत्रम् ।

धृप्टोद्दिष्टमृजुभुजं क्षेत्रं यत्रैकवाहुतः स्वल्पा ।

तदितरभुजयुतिरथ वा तुल्या झेयं तदक्षेत्रम् ॥ १६ ॥

उदाहरणम् ।

चतुस्त्रे त्रिषडूव्दचको भुजास्त्र्यस्त्रे त्रिषण्णव ।

उद्दिष्टा यत्र धृष्टेन तदक्षेत्रं विनिर्दिशेत् ॥ १ ॥

एते अनुपपने क्षेत्रे ।

भुजप्रमाणा ऋजुशलाका भुजस्थानेषु विन्यस्यानुपपत्तिर्दर्शनीया । अत्रोपपतिः । सर्वत्र त्रिभुजे भुजद्वययोगतस्तृतीयो भुजः सदैदाल्पो भवतीति तावत्क्षेत्रमितेर्विंशीप्रतिज्ञया स्पष्टमेव । चतुर्भुजे तु भुजद्वययोगस्य कणेतोऽधिकत्वाभ्दुजत्रययोगः स्वतश्रतुश्रेभुजतो महान् भवति । एवमेंव पेवभुजक्षेत्रादावदि धीमभ्दिरहनीयमत उपपन सर्वम् ।

आबाधादिज्ञानाय करणसूत्रमार्याव्दयम् । त्रिभुजे भुजयोर्योगस्तद्न्तग्गुणो भुवा हृतो लव्घ्या । द्विष्टा भूलनयुता दलिताऽऽवाधे तयोः स्याताम् ॥ १७ ॥

स्वावरधाभुजकृत्योरन्तरमूलं प्रजायते लक्वः । लक्वगुणं भूम्यर्धं स्पप्टं त्रिभुजे फलं भवति ॥ १८ ।।

उदाहरणम् । क्षेत्रे मही मनुमिता त्रिभुजे भुजौ तु यत्र त्रयोदशतिथिप्रमितौ च चस्य । तत्रावलम्बकमथो कथयाववाधे क्षिप्रं तथा च समकोष्ठमितिं फलाख्याम् ॥ १ ॥

भूः १४ । भुजौ १३ । १५ । लब्धे अवाधे न्यासः । ५। ६ । लम्बश्व १२। क्षेत्रफलं च ८४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/८८&oldid=399428" इत्यस्माद् प्रतिप्राप्तम्