पृष्ठम्:लीलावती.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ व्यस्तविधौ करणसूत्रं वृत्तद्वयम् | छेदं गुणं गुणं छेदं वर्ग मूलं पदं कृतिम् । ऋणं स्वं स्वमृणं कुर्याद् दृश्ये राशिप्रसिद्धये ॥ १ ॥ अथ स्वांशाधिकोने तु लवाढ्योनो हरो हरः । अंशस्त्वविकृतस्तत्र विलोमे शेषमुक्तवत् ॥ २॥ अत्रोद्देशकः । यस्त्रिनस्त्रिभिरन्वितः स्वचरणैर्भक्तस्ततः सप्तभिः स्वत्र्यंशेन विवर्जितः स्वगुणितो हीनो द्विपञ्चाशता । तन्मूलेऽष्टयुते हृतेऽपि दशभिर्जातं द्वयं ब्रूहि तं राशिं वेत्सि हि चञ्चलाक्षि ! विमलां वाले ! विलोमक्रियाम् ॥ १ ॥ न्यासः | गुणः ३ | क्षेपः ३/४ | भाजकः ७ ॠणम् १/३ । वर्गः | ॠणम् ५२ | मूलम् । क्षेपः | हरः १० | दृश्यम् २ | यथोक्तकरणेव जातो राशिः २८ । इति व्यस्तविधिः । अत्रोपपत्ति:--राशौ येनालापेन दृश्यसमं भवेद्यस्तेन तनैव दृश्येऽसीष्टराशिर्भवे द्वित्युपपन्नं पूर्वार्धम् | अथ स्वांशाधिकोने त्वित्यादौ कल्प्यते राशिः =या, तदाऽऽलापबलेन दृश्यम् = दृ = या = (या.अ)/क अत्र समच्छेदीकृत्य समशोधनादिना जातं यावत्तावन्मानम् = (दृ.क)/(क=अ) = दृ + [(दृ.क)/(क=अ) - दृ] = दृ = [(दृ.क)/(क=अ)]

अथेष्टकर्मसु करणसूत्रं वृतम् | उद्देशकालापवदिष्टराशिः क्षुण्णो हृतोंऽशै रहितो युतो वा । इष्टटाहतं द्रष्टमनेन भक्तं राशिर्भवेत् प्रोक्तमितीष्टकर्मं ॥ १ ॥ अत्रोद्देशकः | पञ्चघ्नः स्वत्रिभागोनो दशभक्तः समन्वितः । राशिव्यंशार्धपादैः स्यात् को राशिर्द्द्यूनसप्ततिः || १ || न्यासः । गुणः ५ । ऊने | हरः १० | राश्यंशाः १/३ १/२ १/४ । दृश्यम् ६८ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/२४&oldid=399033" इत्यस्माद् प्रतिप्राप्तम्