पृष्ठम्:लीलावती.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६१

वासनासहिता ।


एवमत्र बहवो विशेषा: समुपपद्यते ते च ब्रन्थविस्तरभयाव्रात्र प्रतिपादितः अस्माभिः । अत्रैव "संक्षिसमुक्तं पृथुताभयेन नान्तोऽस्ति यस्मात् गणितार्णवस्ये"ति ग्रन्थ कारोक्ति २थतीव सुन्दरीति धीमद्भिः स्फुटमवगम्यते ।

इति लीलावतीवसनायामङ्कपाशः समाप्तः ।


न गुणो न हरौ न कृतिर्न घनः पृष्टस्तथापि दुष्टानाम् । गर्विम्तगणकबहूनां स्यात्पातोऽवश्यमङ्कपाशेऽस्मिन् ॥ १ ॥ येषां भुजातिगुणवर्गविभूषिताङ्गी शुद्धऽखिलव्यवहृतिः खलु कण्ठसक्त्ता । लीलावतीह सरसोत्तिमुदाहरन्ती तेषां सदैव सुखसम्पदुपैति वृद्धिम् ॥ २ ॥

इति श्रीभास्कराचार्यविरचिते सिद्धान्तशिरोमणै लीलावतीसंज्ञः पाटऊवव्यय: सम्पूर्ण: ॥ लील्लवत्यम् वृतसंख्छ। २६६ ॥


"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१७०&oldid=399276" इत्यस्माद् प्रतिप्राप्तम्