पृष्ठम्:लीलावती.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
लीलावती-

 अत्रोपपत्तिः--पूर्वेकृतवर्गस्या (क^२+२क.ग+ग^२) स्य स्वरूपावलोकनेन स्फुटमवगम्यते यत् किल कृस्मिन्नपि वर्गराशौ प्रधममन्त्याङ्कवर्गस्ततो द्विगुणितोपा- न्तिमान्त्याङ्कघातस्तत उपान्तिमाङ्कवर्गश्चेति स्थितिः । अतोऽन्त्याद्विपमाध्यस्य कृतिः शुद्धयति सोऽन्तिमाङ्कस्ततो द्विगुणेनानेन समे भक्ते सत्युपान्तिमाङ्कलाभः स्यात्तत्स्तद्व- र्गविशोधनेन यदि शेपाभावस्तगदा तदेव तन्मूलम्। शेण्सत्वे तु वुनर्मूलम् द्विगुणयेदित्या- द्विविधानेन क्रिया विधेया ततो यावन्मिता बिपमसंख्या तन्मितैव् वर्गमूलराशौ स्थान- संख्या भवतीत्युपपन्नं सर्वम् ।

घने करणसूत्रं वृत्तत्रयम् ।

समत्रिघतश्व घनः प्रदिष्टः स्थाप्यो घनोऽन्त्यस्य ततोऽन्त्यवर्गः ।
आदित्रिनिघ्नस्तत आदिवर्गस्त्रयन्त्याहतोऽथादिघनश्व सर्वेवे ॥ ११ ॥
स्थानान्तरत्वेन युता घनः स्यात् प्रकल्प्य तन्खण्डयुगे ततोऽन्त्यम् ।
एवं मुहुर्वर्गधनप्रसिद्धावाध्याङ्कतो वा विधैिरैप कार्यः ॥ १२ ॥
खण्डाभ्यां वा हतो राशिस्त्रिघ्नः खण्डघनैक्ययुक् ।
वर्गमूलधनः स्वघ्नो वर्गराशेर्घनो भवेत् ॥ १३ ॥

अत्रोद्देशकः ।

नवघनं त्रिघनस्य घनं तथा कथय पञ्च घनस्य घनं च ।
घनपदं च ततोऽणि घनात् सखे यदि घनेऽस्ति घना भवतो मतिः॥ १॥

   न्यासः ६।२७।१२५।

 जाताः क्रमेण घनाः ७२६ | १६६८३ । १६५३१२५।

 अथ वा राशिः ६ । अस्य खण्डे ४ ।५ । आभ्यां राशिर्हतः १ i० ।

त्रिनिघ्नश्व ५४० । खण्डघनैक्येन १८६ । युतो जातो घनः ७२६ ॥

 अथ वा राशिः २७ ! अस्य खण् १० | ७ आभ्यां हतस्त्रिघ्नश्व ११३४० । खण्डघनैक्येन ८३४३ युतो जातो घनः १६६८३ ।

 अथ वा राशिः ४ | अस्य मृलं २। घनः ८ ।अयं स्वघ्नो जात- श्वतुर्णो घनः ६४ ॥

 या राशिः ६ अस्य मूलम् ३ । घनः २७ अस्य वर्गो नवानां घनः ७२६| यो वर्गघनः स एव वर्गमूलधनवर्गः । बीजगणितेऽस्योपयोगः ।

इतिं धनः ।

 अत्रोपलिः--अन्न त्रयाणां समाङ्कानां घातो घन इति सँ कृता प्राची

नैस्तेनान्नापि कल्प्यते, अ= क + ग,

     .. अ*अ*अ = अ =(क+ग) (क*ग) (क+ग)

     = (क^२+ २ क^२.ग + ग^२ ) (क+ग)

     =क^३ + २क^२.ग + क.ग^२ + क^२.ग + २ क.ग^२ + ग^३

     = क^३ + ३क^२.ग + ३ क.ग^२ + ग^३,

एवं सर्वत्र ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१७&oldid=399285" इत्यस्माद् प्रतिप्राप्तम्