पृष्ठम्:लीलावती.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वासनासहिता। १२५

न्यासः ।

पिण्डयोगदलं १८ दैर्घ्येन १०० संगुणितम् १८०० । दारुदारणपथै(४)र्गुणितम् ७२०० । षटूस्वरेषु ५७६ । विहृतं जातं करामकं गणितम् ।

अत्रोपपत्तिः । अत्र कस्यापि दरुखण्डस्याग्रमूलघोः पिण्डयोर्योगार्धसममेव मध्यप्य पिण्डमानं भवति, तस्य दैर्घ्येस्य च घाततुल्यमेव तत्फलं भवततीति क्षेत्रमित्या स्पष्टमेव । अथ कर्मकारो हि कष्टविदारणावसरे सूत्रपातेन तद्दारणपन्थानं विधाय प्रतिचिह्नितमागण दारुपिण्डं विंदास्यतीति सम्प्रदावः कर्मकाराणाम् । अतः पूर्वप्रकारागतं फलं दारुदारणपथैः सद्वास्तवं फलं भवति । अत्राङ्गुलात्मकफलस्य हस्तत्मकविधानार्थं तदे ५७६ तन्मित्या भक्तं कृतमाचार्येण । प्रतिकरे चतुर्विंशत्यङ्गुलकल्पनासत्वादित्युपपन्नम् ।

क्रकचान्तरे करणसूत्रं सार्धवृत्तम् ।

छिद्यते तु यदि तिर्यगुक्तवत्

पिण्डविस्तृतिहवेः फलं तदा ॥ ३ ॥

इष्टिकाचितिद्दषच्चितिखातक्राकचव्यवहृतौ खलु मुख्यम् ।

कर्मकारजनसम्प्रतिपत्त्या तन्मृदुत्वकठिनत्वशेन ॥ ४ ॥

उदाहरणम् ।

यद्विस्तृतिर्दन्तमिताङ्गुलानि पिण्डस्तथा षोडश यत्र कष्टे ।

छेदेषु तिर्यङ्नवसु प्रचक्ष्व किं स्यात् फलं तत्र करात्मकं मे ॥ १ ॥

न्यासः ।

विस्तारः ३२ | पिण्ङः १६ । पिण्डविस्तृतिहतिः ५१२ । मार्गः ६ घ्नि ४६०८ । षट्स्वरेषु ५३६ विहृता जातं फलं हस्तः ८ ।

इति क्रकचव्यवहारः ।

अत्रोपपत्तिस्तु यत्राग्रमूलयोः पिण्डमाने समाने तत्र पिण्डबिस्तुतिहृतितुल्यमेव फलं भवतीति सुगमैव में विदारण मूल्यं तु पदार्थस्य मृदुत्वकठिनत्ववशेनज्ञायत इति युिक्तयुक्तमेवाचार्योक्तम् ।

इति लीलावतीवासनायां क्रकचव्यवहारः समाप्तः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१३५&oldid=399102" इत्यस्माद् प्रतिप्राप्तम्