पृष्ठम्:लीलावती.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२४ लीलवती-

चितौ करणसूत्रं सर्धवृतम् ।

उच्छ्रयेण गुणितं चितेः किल क्षेत्रसम्भवफलं घनं भवेत् ।

इष्टिकाघनहृते घने चितेरिष्टिकापरिमितिश्च लभ्यते ॥ १ ॥

इष्टिकोच्छ्रयहृदुच्छ्रितिश्चितेः स्युः स्तराश्च दृषदां चितेरपि ।

उदाहरणम् ।

अष्टादशांगुलं दैर्घ्यं विस्तारो द्वादशाङ्गुलः ।

उच्छ्रितिस्त्र्यंगुला यस्थमिष्टिकास्तश्चितौ किल ॥ १ ॥

यद्विस्तृतिः पञ्चकराष्टहस्तं दैर्घ्यश्च यस्यां त्रिकरोच्छ्रितिश्च।

तस्यां चितौ किं फलमिष्टिकनां सङ्ख्या च काब्रुहि कतिस्तराश्च ॥२॥

न्यासः इष्टिकाचितिः ।

इष्टिकाया घनहस्तमानम् ३/६४ चितेःक्षेत्रफलम् ४०। उच्छ्रयेण ३ गुणितं चितेर्घनफलं १२० ॥ लब्धा २५६० इष्टिकासङ्ख्या स्तरसङ्ख्याः २४ ! एवं पाषाणचितावपि ।

इति चितिव्यवहारः ।

अथ चितिव्यवहारः ।

अत्रोपपत्तिः । अत्र चितेः क्षेत्रफलार्थं तस्या दैर्घ्यविस्तृत्योर्घातं कुस्च कृत्वा तद्बेधेन तस्याउच्छ्रयमितेन गुणितं तदा तस्य घनफलं भवतीति स्पष्टमेव गणितविदाम् ? एवमेवैकस्या इष्टिकाया घनफलमानीय तेन यद्येकेष्टिका लभ्यते तत्दा चितेर्घनफके क्रियन्त्य इत्यनुपातेन चिताविष्टिकामितिः स्यात्सर्वत्र सम्बन्धस्य स्थिरत्वकल्पनात् । एवमिष्टिकोच्छ्रित्वा यद्येका पंक्तिस्तद चित्युच्छ्रित्या किमित्यागता चिताविष्टिकापंक्तिरित्युपपन्नं सर्वम् ।

इति लीलावतीवाचनायां चितिव्यवहारः सम्पूर्णः ।

अथ क्रकचव्यवहारे करणसूत्रं वृत्तम् ।

पिण्डयोगदलमग्रमूलयोर्दैर्ध्यसंगुणितमंगुलात्मकम् ॥ २ ॥

दारुदारणपथैः समाहतं षट्स्वरेषु विहृतं करात्मकम् ।

उदाहरणम् ।

मूले नखांगुलमितोऽथ नृपांगुलोऽग्रे

पिण्डः शतांगुलमितं किल यस्य दैर्ध्यम् ।

तद्दारुदारणपथेषु चतुर्षु किं स्या-

द्धस्तात्मकं वद सखे गणितं द्रुतं मे ॥ १ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१३४&oldid=399100" इत्यस्माद् प्रतिप्राप्तम्