एतत् पृष्ठम् परिष्कृतम् अस्ति
११२ लीलावती
एतेन- आधारवृत्तपरिधिर्वेधन्यासार्धवर्गयोः । योगमूलहतो द्वाभ्यां भक्तः पृष्ठफलं भवेत् । इति ।। सम्यगुपपद्यते ।
अथवृत्तान्तस्व्यस्त्रादिनवास्त्रान्तक्षेत्राणां भुजमानानयनाय क्ररणसूत्रं वृत्तत्रयम् ।
त्रिह्मङ्काग्निनभश्चन्द्रे--(१०३९२३) स्त्रिवाणाष्टयुगाष्टभिः (८४८५३) वेदाग्निवाणस्त्रश्चैश्च (७०५३४) खखाभ्राभ्ररसैः (६०००० ) कमात् ।।४५।। वाणेषुनखवाणैश्च (५२०५५) द्विद्विनन्देषुसागरैः (४५९२२ ) कुरानदशवैदैश्च (४१०३२) वृत्तव्यासे समाहते ॥ ४६ ॥ खस्वखाभ्रार्क ( १२०००० ) संभक्ते लभ्यन्ते क्रमशो भुजाः । वृत्तान्तस्व्यस्त्रपूर्वाणां नवास्त्रान्तं पृथक् पृथक् ।। ४७ ।। उदाहरणम् ।
सहस्रद्वितयव्यासं युद्वृत्ं तस्य मध्यतः । समव्यस्त्रादिकानां मे भुजान् वद पृथक् पृथक् ॥ १ ।। अथ वृतान्तस्विभुजे भुजमानानयनाय न्यासः। व्यासः २००० । त्रिह्यङ्काग्निनभश्च न्दैः-( १०३९१३ ) र्गुणितः । (२०७८४६०००) खखस्वाभ्रार्कै-(१२०००० ) र्भक्तो लव्यं व्यस्त्रे भुजमानम् १७३२ १/२० । वृत्तान्तश्चतुर्भुजे भुजमानानयनाय न्यासः । व्यासः २००० । विवाणाष्टयुगाष्टभि - (८४८५६), र्गुणितः (१६९७०६०००) खखस्वा- र्भ्रार्कै - (१२००००) र्भक्तो लब्धं चतुरस्रोभुज मानम् १४१४ १३/६० ।