पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९१ यदि द्वे खण्डे केवलवर्गसंज्ञार्हे भवतस्तदा षष्ठी योगसंज्ञा रेखा भवति ॥

अथ पञ्चचत्वारिंशत्तमं क्षेत्रम् ॥ ४५ ॥

तत्र प्रथमयोगरेखोत्पादन मिष्टमस्ति । तत्र प्रथमं अरेखा इष्टसंज्ञार्हा कल्प्या । पुनस्तन्मिलिता बजरेखा कल्पिता । द्वौ वर्गराश्यङ्कौ दहदझौ तथा कल्प्यौ यथाऽनयोरन्तरं झहं वर्गराशिर्न भवति । पुनर्बजवर्गजवव- र्गयोर्निष्पत्तिर्दहझहनिष्पत्तितुल्या क- V4 ल्पिता । तस्मात् बवं प्रथमयोगरेखा भविष्यति । व त जं झद व त

अस्योपपत्तिः ।

बजं महत्खण्डमङ्कसंज्ञार्ह मस्ति । जवखण्डमसाद्भिन्नमस्ति । केवलं मिलितवर्गो भवति । वर्गश्चाङ्कसंज्ञार्होऽस्ति । बजवर्गजववर्गयोरन्तरं तवर्गतुल्यं भवतीति कल्पितम् । तस्मात् बजवर्गजवर्गयोरन्तरं तवर्ग- तुल्यं भवतीति कल्पितम् । यस्मात् बजवर्गतवर्गयोर्निष्पत्तिर्दहदझ- योर्निष्पत्तितुल्या भविष्यति । तस्मात् तं बजेन मिलितं भविष्यति । बजवर्गोऽपि जबवर्गतवर्गयोगतुल्यो भविष्यति ।

अथ षट्चत्वारिंशत्तमं क्षेत्रम् ॥ ४६ ॥
तत्र द्वितीययोगरेखोत्पादनमिष्टमस्ति ।

प्रथममिष्टसंज्ञार्हा अरेखा कल्पिता । तन्मिलिता जबरेखा कल्पिता । द्वावङ्कौ पूर्ववत् कल्प्यौ । जबज चवर्गयोर्निष्पत्तिर्झहदहनिष्पत्तितुल्या कल्पिता । तस्मात् बवं द्वितीय योगरेखा भविष्यति ।


१. कल्पितौ D.