पृष्ठम्:रामायणमञ्जरी.pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
रामायणमञ्जरी।


ततो जगाद हनुमान्प्रणम्य रघुनन्दनम् ।
प्रीतिप्रसादितेनाक्ष्णा सुग्रीवेण निरीक्षितः ।। ६४४ ॥
देव देववधूः श्लाघ्या सती जीवति जानकी ।
दृष्टा च संक्षयक्लिष्टा लेखेव शशिलक्ष्मणः ॥ ६४५ ॥
श्रुत्वैतदमृतावादसोदरं हनुमद्वचः ।
ऊचे रामः शिखण्डीव नवाम्भोदस्वनोदितः ।। ६४६ ॥
दिष्टया जीवति वैदेही देहबद्धा धृतिर्मम ।
कथं दृष्टा क वा दृष्टा कथं वा मयि वर्तते ॥ ६४७ ॥
मद्वियोगेन महता तन्वी प्रतनुतां गता ।
कान्तिमात्रावशेषेण मन्ये सा वपुषा स्थिता ॥ ६४८ ॥
इत्युक्ते रघुनाथेन जगाद पवनात्मजः ।
पारेसमुद्रं लङ्कायां मया दृष्टा तव प्रिया ॥ ६४९ ॥
एकवेणीव्रता दीर्घध्याननिश्चललोचना ।
मलिना गाढशोकाग्निधूमेनेवाश्रुवर्षिणी ॥ ६५० ।।
दशाननगृहोद्याने राक्षसीभिः सुरक्षिता ।
लक्षिता त्वद्वियोगेन तप्तनिश्वासलक्ष्मणा ॥ ६५१ ॥
यत्तस्यास्तीव्रचारित्रतपोदीप्तेन चक्षुषा ।
नाद्यापि दग्धः पौलस्त्यः सा तस्यापि प्रगल्भता ।। ६५२ ।।
अथ वा प्लुष्ट एवासौ तत्प्रकोपकृशानुना ।
त्वद्वाणमाला येनास्मिन्हेतुमात्रं भविष्यति ॥ ६५३ ।।
इत्युक्त्वा विस्तरेणास्सै सीतासंदेशभाषितम् ।
अभिज्ञानकथां तस्याः स्ववृत्तं च न्यवेदयत् ॥ ६५४ ॥
निखिलं विनिवेद्याथ मारुतिर्मेथिलीवचः ।
रामस्य प्रत्ययायैव ददौ तं वेणिकामणिम् ॥ ६५५ ॥
रामोऽपि मणिमादाय बाप्पाम्बुभिरपूरयत् ।
विरहानलसंतप्तं तस्या मूर्तमिवाशयम् ॥ ६५६ ।।


१. 'वित्फारिताक्षेण' शा.. २. 'कृता' शा०.