पृष्ठम्:रामायणमञ्जरी.pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७९
रामायणमञ्जरी ।


उवाच स्वैरमामाप्य चिन्तासंतापिताशयाम् ॥ ५६९ ॥
सखि निर्मुक्तपाशोऽसौ वीरो वानरयूथपः ।
प्रज्वाल्य निखिलां लङ्कां निहत्य सुभटान्गतः ।। ५७०॥
इति लङ्कादीपनम् ॥ १५ ॥
इति पीयूषवर्षेण तया सिक्तैव मैथिली ।
अनलानिलयोश्चक्रे नमस्कारं मनखिनी ।। ५७१ ॥
दग्ध्वा दशास्यनगरीं ज्वलनेन बलीयसा ।
पश्चात्तापाकुलश्चिन्तामवाप पवनात्मजः ॥ ५७२ ॥
अहो प्रमादिना मोहादसमीक्षितकारिणा ।
क्रुद्धेन दहता लङ्कां मया दग्धैव जानकी ॥ ५७३ ॥
धीरास्ते कीर्तिशुभ्राणां भाजनं सर्वसंपदाम् ।
न ये प्रचण्डकोपाग्नेर्यान्ति क्रीडापतङ्गताम् ॥ ५७४ ।।
यदर्थे विपुलः क्लेशः कृतः सैव हता मया ।
तरोः फलाभिकामेन मूलमुन्मूलितं पुनः ॥ ५७५ ॥
मूढेन कार्यसर्वस्वं स्वहस्तेन हतं मया ।
अस्मिन्नेव पताम्यग्नौ घोरे चा मकराकरे ॥ ५७६ ॥
सिद्धोऽप्यर्थः प्रनष्टो मे चपलस्य प्रमादिनः ।
काकतालीयसंप्राप्तो विभवः कुमतेरिव ॥ ५७७ ॥
निमित्तानि च पश्यामि शुभशंसीनि केवलम् ।
अप्यग्निना दक्षिणेन रक्षिता सा पतिव्रता ।। ५७८ ॥
इति चिन्ताकुलः क्षिप्रं मारुतिर्व्योमचारिणाम् ।
स्थितां शुश्राव वैदेहीमाश्चर्यकथने मिथः ।। ५७९ ।।
ततः प्रहृष्टोऽतिजवादशोकवनिकां पुनः ।
गत्वा दृष्ट्वा च वैदेहीं समाश्वास्याभिवाद्य च ॥ ५८० ॥
आरुरोह गिरेः शृङ्गं समुद्रं तर्तुमुद्यतः ।


१. 'चिन्तां प्रपेदे शा०.