पृष्ठम्:रामायणमञ्जरी.pdf/२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९
रामायणमञ्जरी ।


तेन व्याप्तां महीं दृष्ट्वा सुराः सगिरिसागराम् ।
तत्संग्रहाय दहनं सानिलं समचोदयत् ॥ २१८ ॥
तत्तेजो वह्निना व्याप्तं बभूव श्वेतपर्वतः ।
जातरूपमयं दीप्तं तथा शरवणं महत् ॥ २१९ ॥
ततः सुरान्गिरिसुता शशाप कुपिता पुरः ।
अपत्यं वः स्वदारेषु न कदाचिद्भविष्यति ॥ २२० ॥
अपत्यप्रीतिरहिता बहुभोज्या च भूरियम् ।
यास्यत्यनेकरूपत्वमित्युक्त्वा लज्जिताभवत् ॥ २२१ ।।
ततो देव्या सह तपश्चक्रे हिमगिरौ हरः ।
परकार्यसुखाः सन्तः स्वसुखेषु पराङ्मुखाः ॥ २२२ ॥
अत्रान्तरे सुरा ब्रह्मवाक्यात्सेनाधिपार्थिनः ।
गङ्गायां जनयापत्यमित्यूचुर्जातवेदसम् ॥ २२३ ॥
तेनाथ गर्भाधानाय प्रार्थिता व्योमवाहिनी ।
दिव्यरूपाभवद्देवी प्रीतये त्रिदिवौकसाम् ॥ २२४ ॥
सा वीक्ष्य दुःसहं तेजो व्यकीर्यत समन्ततः ।
वीर्येणापूरयत्तां च विकीर्णः सर्वतोऽनलः ॥ २२५ ॥
पूर्णेषु सर्वस्रोतःसु सा बभाषे हुताशनम् ।
तेजस्ते नोत्सहे धर्तुं घोरं व्यथितमानसा ।। २२६ ।।
इत्युक्त्वा जाह्नवी वह्निवचसा हिमवत्तटे ।
तत्याज सर्वस्रोतोमिर्गर्भमाभासुरं जबात् ॥ २२७ ॥
धरण्यां हेम तदभूत्तानम्रं कृष्णायसं मुखात् ।
मलं त्रपुसनागादिधातुजं विविधं तथा ।
तत्र गर्भे च्युतं सर्व जातरूपमभूद्वनम् ।। २२८ ॥
स कुमारः शरवणे कृत्तिकाक्षीरवर्धितः ।
कार्तियेकोऽभवद्वह्निसहस्रांशुसमद्युतिः ॥ २२९ ।।


१. 'त्रिदिवं' ग.

२. 'वरम्' क।