पृष्ठम्:रामायणमञ्जरी.pdf/२०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९५
रामायणमञ्जरी।


तं कोपादधिकाताम्रलोचनं सज्जकार्मुकम् ।
संरम्भाप्तायुधास्तूर्णं कपयः पर्यवारयन् ।। ८५ ।।
ते तस्य क्रोधदीप्तस्य कल्पान्तदहनद्युतेः ।
अशक्ताः संमुखे स्थातुं दुद्रुवुर्विगतप्रभाः ॥ ८६ ॥
स ददर्श निशानाथकान्तिसंतानतस्करम् ।
स्फाटिकं हेमहोर्म्योच्चशृङ्गं सुग्रीवमन्दिरम् ।। ८७ ॥
द्वारान्तिकमुपेत्याथ वेणुवीणामृदुस्वनैः ।
एकीकृतं स शुश्राव गीतं किंनरयोषिताम् ॥ ८८ ॥
गीतमन्तःपुरे श्रुत्वा सुग्रीवस्य विलासिनः ।
रामं च दुःखितं स्मृत्वा रुषा जज्वाल लक्ष्मणः ।। ८९ ।।
प्रकोपदुःसहे तस्मिन्संनद्धानां महौजसाम् ।
वानराणां बलैर्धोरैर्निरुद्धे राजवर्त्मनि ।। ९० ॥
ज्याघोषं सिंहनादं च कृत्वा व्रजन्पुनः पुनः ।
पुरद्वारे स शुश्राव यौवराड् वालिनन्दनः ॥ ९१ ॥
लक्ष्मणो वानरान्दृष्ट्वा वाच्यमानो महाभुजः ।
सुग्रीवं नलनीलं च क्षयं तेषामवैत्पुरीम् ॥ ९२ ।।
तद्वाक्यादङ्गदस्तूर्णं सुग्रीवस्य तमागतम् ।
न्यवेदयदतिक्रुद्धं क्षयोद्यतमिवान्तकम् ॥ ९३ ॥
क्षुभ्यत्कपिबलाम्भोधिशब्देन व्योमसर्पिणा ।
तारया च सुखासक्तः सुग्रीवः प्रतिबोधितः ॥ १४ ॥
हनुमन्नलनीलाद्यैः सुषेणविनताङ्गदैः।
लक्ष्मणागमनोद्विग्नः स मन्त्रिभिरचिन्तयत् ॥ ९५ ॥
तमूचे वायुतनयः संदेहान्दोलिताशयम् ।
सर्वथा प्रणिपत्यैव प्रसाद्यो राघवानुजः ॥ ९६ ।।
कान्ताप्रणयकोपेषु सुहृदां च प्रसादने ।
शोभते महतामेव विनयावनतं शिरः ॥ ९७ ॥


१. 'कुर्वन्प्रायात्' शा० २. 'युवराड्' स्यात्,