पृष्ठम्:रामायणमञ्जरी.pdf/२०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९४
काव्यमाला।

वैक्रस्यानेकजिह्वस्य भोगमात्राभिमानिनः ।
कस्य नोद्वेगजननी सखे तव भुजंगता ।। ७२ ।।
तदेवेदं धनुर्दीप्तं स एवायं शिलीमुखः ।
वालिनं यदि ते द्रष्टुं मतिर्जाता तदुच्यताम् ॥ ७३ ।।
इति भ्रातुर्वचः श्रुत्वा लक्ष्मणस्तप्तमानसः ।
तमुवाच व्रजाम्येष चपलस्य कपेः पुरीम् ॥ ७४ ॥
तमार्य त्यक्तमर्यादं सौजन्यव्यञ्जनं शठम् ।
वक्ष्यन्ति तव संदेशं ममैते निशितेषवः ॥ ७५ ॥
इति क्रोधानलेद्धस्य लक्ष्मणस्योत्कटं वचः ।
रामः श्रुत्वा तमवदद्विचारव्यस्तमानसः ॥ ७६ ॥
सौमित्रे मा क्रुधस्तस्मै स एवास्त्वपवादभाक् ।
सन्तः कृतापराधेऽपि प्रसादमधुराशयाः ॥ ७७ ॥
प्रणयात्सुहृदित्युक्तः सकृदप्युचिताशयैः ।
कालेन दृष्टदोषोऽपि नार्हत्येव विमाननाम् ॥ ७८ ॥
अनार्यमार्यवृत्तेन सत्येनावृत्तकारिणम् ।
रिपुमप्युपकारेण वशीकुर्वन्ति साधवः ॥ ७९ ॥
अल्पेऽपि दोषे प्राणेषु दण्डो यैर्विनिपात्यते ।
प्रकृतिस्थाः प्रसादे ये कृच्छ्रा तैः सह संगतिः ॥ ८० ॥
दोषग्रहणदक्षाणां विरज्यन्ते सुहृज्जनाः ।
मिथ्याभिमानस्तब्धानां लुब्धानामिव सेवकाः ॥ ८१ ॥
इति भ्रात्रा समादिष्टः सौमित्रिर्निःश्वसन्ययौ ।
किष्किन्धां वानरभुजस्तम्भसंभारदुर्गमाम् ॥ ८२ ॥
संप्राप्य विद्रुमस्तम्भरत्नप्राकारतोरणाम् ।
नगरीं सूर्यपुत्रस्य सुग्रीवस्य प्रभामिव ।। ८३ ॥
क्रोधोद्धतगतिः पादन्यासकम्पितभूतलः ।
विवेश गणयन्वीरान्प्लवगान्गिरिविग्रहान् ॥ ८४ ॥


1:"वक्रस्या' इति स्यात्, २. 'प्रायेण शा०.