पृष्ठम्:रामायणमञ्जरी.pdf/२०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९३
रामायणमञ्जरी।


अगस्त्यस्योदयेनैषा निर्विषं कुरुते विषम् ।
शरत्कस्मादकस्मान्मे विषं वर्षति दुःखिनः ॥ ५९ ॥
वरं शरन्न ते प्रावृड्वरं प्रावृण्न मे शरत् ।
इति मिथ्यैव संकल्पः सर्वमार्तस्य दुःसहम् ॥ ६० ॥
सीतासमागमोपाये सुहृत्सुचिरचिन्तितः ।
आशाबन्ध इवाद्यापि सुग्रीवो मे न दृश्यते ॥ ६१ ॥
गेयं कर्णे गले मालां प्रियामङ्के मुखे सुराम् ।
कृत्वा विहरति व्यक्तं स मत्कार्यपराङ्मुखः ।। ६२ ।।
लटभाभोगसौभाग्यविभवानुभवोत्सवम् ।
परकार्यानुरोधेन त्यक्तमुत्सहते नु कः ।। ६३ ।।
कथं त्यजति सुग्रीवः प्रियां कण्ठावलम्बिनीम् ।
पुनर्नैवोपयुक्तस्य ममार्थे स्वार्थपण्डितः ॥ ६४ ॥
स्वकार्यतात्पर्यवतां परार्थश्लथचेतसाम् ।
सुखार्थे त्यक्तमानानां निन्द्यं जन्म दुरात्मनाम् ॥ ६५ ।।
अयाचितोपकाराणां प्राणैरप्युपकारिणाम् ।
महात्मनां भवत्येव परचिन्ताकुलं मनः ॥६६॥
पूर्वोपकारिणां पापाः सुहृदां ये पराङ्मुखाः ।
क्रव्यादा अपि मांसेषु सत्यं तेषां पराङ्मुखाः ॥ ६७ ॥
पदस्था विषमस्थानां मित्राणां न भवन्ति ये ।
आयासिता तैर्जननी गर्भभारेण केवलम् ।। ६८ ॥
मम प्रियाविहीनस्य मूढबुद्धेः परायणम् ।
किष्किन्धां त्वमितो गत्वा सुग्रीवं वद लक्ष्मण ॥ ६९ ।।
चत्वारो वार्षिका मासा याता मम वियोगिनः ।
कथमद्यापि न वयं याताः स्मृतिपथं तव ।। ७० ॥
अहो नु विस्मृतवचाः सुहृत्कार्यपरिच्युतः ।
स्त्रीणामपि मुखं स्पष्टं निर्लज्जः कथमीक्षसे ।। ७१ ।।


१. 'तव स्मृतिपथं गताः' शा०,