पृष्ठम्:रामायणमञ्जरी.pdf/१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०
काव्यमाला।

मुनेरस्य प्रभावेण रामः कुशलमाप्स्यति ।
आश्रयः पुण्ययशसां तपसां तेजसां च यः ॥ १०८ ॥
प्रजापतिर्भृशाश्वाख्यो दाक्षायिण्यौ वरात्पुरा ।
तेजोनिधिः प्राप भार्ये जयाख्यां सुप्रभां तथा ॥ १०९ ॥
तयोः पुत्रशतं तस्य जातं विविधविग्रहम् ।
यदस्त्रमण्डलं दिव्यं दीप्तमस्त्रविदो जगुः ॥ ११० ॥
विश्वामित्राय निखिलं संघर्षाख्यं तमुत्कटम् ।
अस्त्रग्रामं महावीर्य स ददौ यशसां निधिः ॥ १११॥
सोऽयं विभुः सहस्राणां नेतुमर्हसि राघवम् ।
वशिष्ठेनेति कथिते तथेत्यूचे महीपतिः ॥ ११२ ॥
ततः कृतस्वस्त्ययनं राघवं लक्ष्मणानुगम् ।
कौशिकाय ददौ राजा निमित्तैः शुभशंसिभिः ॥ ११३ ॥
धन्विनौ काकपक्षाङ्कौ बद्धखड्गौ मुनीश्वरः ।
आदाय प्रययौ वीरस्तौ राधवकुमारकौ ॥ ११४ ॥
गत्वा योजनसंख्यार्धे दक्षिणे सरयूतटे ।
स रामाय ददौ विद्ये श्रमातङ्कजरापहे ॥ ११५ ॥
बलामतिवलाख्यां च जयरूपबलप्रदे।
ते प्राप्य तृप्तिसौभाग्यज्ञानदे ब्रह्मसंभवे ॥ ११६ ॥
महार्हतां परां प्राप्तः काकुत्स्थो हृष्टमानसः ।
स्थित्वा तत्र निशां प्रातः सानुजोऽनुययौ मुनिम् ॥ ११७ ॥
स दृष्ट्वा संगमे गङ्गासरय्वोः पुण्यमाश्रमम् ।
कस्येदं तापस क्षेत्रमिति पप्रच्छ कौशिकम् ॥ ११८ ॥
सोऽब्रवीन्मूर्तिमान्कामः पुरा देवमुमापतिम् ।
लक्ष्यीकर्तु कृतोद्वाहं चचार सुचिरं तपः ॥ ११९ ॥
तपोवनेऽसिन्भगवान्वीक्ष्य तं त्रिपुरान्तकः ।
दृशा चकार सहसा विशीर्णाङ्गमसंगधीः ॥ १२०. ।।


१. "तिः कृशाश्वा' रामायणे. २. 'अध्यर्धयोजनं गत्वा' रामायणे.

.