पृष्ठम्:रामायणमञ्जरी.pdf/१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाला ।

तच्छ्रुत्वा सहसा राजा वशिष्ठसहितः स्वयम् ।
प्रत्युद्ययौ मुनिवरं हर्षपीयूषनिर्भरः ।। ८३ ॥
स पूज्यः पूजितस्तेन प्रविश्यालंकृतासनः ।
सभायां नृपतिं प्रीत्या पप्रच्छानामयं शनैः ।। ८४ ॥
ततो जगाद दशनप्रभाकुसुमितां पुनः ।
कुर्वाणः सफलां वाणी विनयेन नरेश्वरः ॥ ८५ ॥
भगवन्भवतः पुण्यहर्षपीयूषवर्षिणः ।
दर्शनं ताण्डवायैव सत्यं मित्रशिखण्डिनाम् ॥ ८६ ॥
त्वद्दर्शनसुधासारसिक्ता सुकृतवल्लरी ।
पुण्यपुष्पोज्ज्वला सूते प्रहर्षमतुलं फलम् ॥ ८७ ॥
इयमेव भवाम्भोधिविरतस्यामृतच्छटा ।
यद्विवेकोदयस्फीतं दर्शनं च भवादृशाम् ॥ ८८ ॥
तपस्तीर्थाभिषेको वा महद्भिर्वा समागमः ।
एतास्ता जन्मरजसः परिमार्जनभूमयः ।। ८९ ॥
उच्यतां भगवन्यत्ते कृत्यं तत्करवाण्यहम् ।
त्वदाज्ञानुग्रहेणैव कृतकृत्यस्त्वयं जनः ॥ ९० ॥
उक्तो दशरथेनेति विश्वामित्रस्तमब्रवीत् ।
दन्तत्विषा निशानाथं दर्शयन्निव सोमपः ॥ ९१ ॥
जन्म वंशे सहस्रांशोर्गुणाश्च विनयोज्ज्वलाः ।
रुचिराचार भवतामेतत्समुचितं वचः ॥ ९२ ॥
दीक्षितस्य महीपाल बाधन्ते मम राक्षसाः ।
यज्ञं पिहितदिक्चक्राः शोणितासारवर्षिणः ॥ १३ ॥
तेषां विघ्नकृतां यज्ञे विघातायोग्ररक्षसाम् ।
रामं प्रयच्छ मे वीरं बालं बलवतां वरम् ॥ ९४ ॥
तपोवनेषु शमिनां मुनीनां विदधे विधिः ।
तपःक्रतुपरित्राणे राजन्क्षत्रियविक्रमम् ॥ ९५ ॥


१. 'अभ्युद्ययौ' ग.

२: 'क्रान्त' ख. ३. 'जानीहि' इति शेषः: