पृष्ठम्:रामायणमञ्जरी.pdf/१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाला।

प्राप्तेऽङ्गविषये तस्मिन्नवृष्टिप्रभवा विपत् ।
प्रशशामामृतासारधारैरिव पयोधरैः ।। ५९ ॥
तत्प्रीत्या लोमपादोऽस्मै शान्तां दुहितरं ददौ ।
अपुत्रस्तत्सुतां पुत्रतुल्यां जग्राह तां पुनः ॥ ६० ॥
स राज्ञस्तस्य जामाता मुनिस्तव च धर्मतः ।
प्रसाद्य भवता नीतः कुशलं ते विधास्यति ॥ ६१ ॥
सुमन्त्रेणेति कथिते वशिष्ठानुमतो नृपः ।
आनिनायाङ्गविषयमृष्यशृङ्गं वधूसखम् ॥ ६२ ॥
इति ऋष्यशृङ्गोपाख्यानम् ॥ १॥
तत्प्रसादादथ श्रीमानश्वमेधो महीपतेः ।
आवर्तत महारम्भसंभारो भूरिदक्षिणः ॥ ६३ ॥
तस्मिन्यज्ञे नरेन्द्राणां मुनीन्द्राणां च संघशः ।
हृष्टानां त्रिदशानां च समाजः सुमहानभूत् ॥ ६४ ॥
विधिना परिपूर्णेऽथ ऋतौ राजशतक्रतोः ।
पुत्र्यामिष्टिमप्यकरोदृष्यशृङ्गस्तदर्थिनः ॥ ६५ ॥
अत्रान्तरे दशास्येन विप्रवासितसंपदः ।
ययुश्चतुर्मुखमुखाः सुराः शरणमच्युतम् ।। ६६ ॥
ते तमूचुः सुरारातिं वरदानेन वेधसः ।
करोति देवानसुरान्दुर्जयो देव रावणः ॥ ६७ ॥
अवध्यः सर्वभूतानां स मनुष्यादृते युधि ।
तस्माद्दशरथस्याद्य भगवन्व्रज पुत्रताम् ॥ ६८ ॥
चतुर्धा योगमास्थाय विभज्यात्मानमात्मना ।
अवतीर्य धरां विष्णो जहि त्रैलोक्यकण्टकम् ॥ ६९ ॥
इत्युक्ते त्रिदशैर्भीतैस्तथेत्युक्ते च विष्णुना ।
पुत्रेष्ट्यां परिपूर्णायां राज्ञो दशरथस्य च ॥ ७० ॥


१. 'पुण्या' क-ख-ग. २. देवाधिकाराधिपानित्यर्थः; यद्वा देवान् देवाधिकार-

च्युतानित्यर्थः.