पृष्ठम्:रामायणमञ्जरी.pdf/११६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०७
रामायणमञ्जरी ।


गौरीव चन्द्रचूडस्य रोहिणीवामृतत्विषः ।
संमता ह्यसि रामस्य कमला श्रीपतेरिव ॥ ३४० ॥
सुरार्हमपरिम्लानं माल्यं वस्त्रविभूषणम् ।
दिव्यं विलेपनं चेदं गृहाणाश्लिष्टरूपदम् ॥ ३४१ ॥
इत्युक्त्वास्यै ददौ दिव्यं माल्याम्बरविभूषणम् ।
प्रणता प्रीतिदायं च प्रतिजग्राह जानकी ॥ ३४२ ॥
विस्रम्भप्रीतिवात्सल्यान्मुनिपत्न्याथ जानकी ।
पृष्टा जन्मकथामूचे सुधामधुरवादिनी ॥ ३४३ ॥
पुरा जनकभूपालो मेनकां नाककामिनीम् ।
दृष्ट्वा तत्संगमे पुत्रलाभाय विदधे मतिम् ॥ ३४४ ॥
जाते मनोरथे तस्य वागुवाचाशरीरिणी ।
अयोनिजमपत्यं ते भविष्यत्यचिरादिति ॥ ३४५ ॥
ततः क्रतुक्रियारम्भे विपुले तस्य भूपतेः ।
हेमलाङ्गलकृष्टायाः संजाताहं सुता भुवः ॥ ३४६ ॥
कालेन वर्धमानायां मयि पित्रा स्वयंवरः ।
धनुरारोपणपणः कल्पितो नृपसंगमे ॥ ३४७ ॥
अशक्तास्ते नृपा रुद्रचापारोपणकर्मणि ।
मयि शौर्याभिमाने च ययुर्भग्नमनोरथाः ॥ ३४८ ॥
ततो यदृच्छयाप्तेन धनुषो भङ्गकारिणा ।
प्राप्ताहमार्यपुत्रेण सेवासौभाग्यभागिनी ॥ ३४९ ॥
मुनिपली निशम्यैतत्प्रीत्या प्रोवाच जानकीम् ।
मधुरं ते वचः पुत्रि न तृप्तिं विदयाति मे ॥ ३५० ॥
आसन्नेयं शशिमुखी चन्द्रिका रुचिराम्बरा ।
तारांशुहारा त्वमिव श्यामा कुमुदहासिनी ॥ ३५१ ॥
गम्यतामन्तिकं पत्युरित्युक्त्वा विरराम सा ।
सीतापि प्रेयसः पार्श्वं जगाम प्रणिपत्य ताम् ॥ ३५२ ॥


१. 'विददाति' शा०.