पृष्ठम्:रामायणमञ्जरी.pdf/११५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०६
काव्यमाला ।


मृदितं तच्छकृन्मूत्रपरिक्लिन्नतृणं वनम् ॥ ३२७ ॥
उक्त्वेति सीतानुगतो रामः सौमित्त्रिणा सह ।
पवित्रचरितस्यात्रेर्जगामाश्रममश्रमः ॥ ३२८ ॥
इति भरतपर्व ॥ ८ ॥
तत्र तं तेजसां राशिमृषिं विरचिताञ्जलिः । .
प्रणनाम कृतातिथ्यस्तेन स्निग्धाभिभाषितः ॥ ३२९ ॥
पत्नीं पतिव्रतां तस्य वृद्धसिद्धनमस्कृताम् ।
अनसूयां गिरा पत्युर्ववन्दे जनकात्मजा ॥ ३३० ॥
दशवर्षसहस्राणि यया तीर्थे कृतं तपः ।
फलमूलान्यनावृष्ट्यां जह्नुकन्यां च यासृजत् ॥ ३३१ ॥
दशरात्रायतां रात्रिं चक्रे देवहिताय या ।
तां प्रणम्य व्रतक्षामां जराशुभ्रशिरोरुहाम् ॥ ३३२ ॥
पुण्यां पुण्यार्जितामत्रेर्मूर्तामिव तपःश्रियम् ।
जहर्ष जानकी तस्याश्चरित्रेऽभ्यधिकादरा ॥ ३३३ ॥
अनसूया जगादाथ प्रणतां तां पुरःस्थिताम् ।
शीलव्रतपताकेव कम्पमाना जरावशात् ॥ ३३४ ॥
दिष्ट्या पुत्रि त्वया प्राप्तं सतीव्रतपवित्रितम् ।
सद्यशस्त्रिदशश्लाघ्यं वने पत्युः सपर्यया ॥ ३३५ ॥
नातः परतरं किंचित्कुलस्त्रीणां परं व्रतम् ।
यत्सदा भक्तिपूतेन मनसा भर्तृसेवनम् ॥ ३३६ ॥
संमुखं निहताः शूरा ज्ञाननिष्ठास्तपस्विनः ।
प्रयान्ति परमं धाम भर्तृभक्ता हि योषितः ॥ ३३७ ॥
प्रजानां दैवतं राजा पितरौ दैवतं सताम् ।
विप्राणां दैवतं वह्निर्नारीणां दैवतं प्रतिः ॥ ३३८ ॥
इयं सुधामयी कान्तिरिदं लीलामयं वचः ।
भर्तृभक्तिप्रणयिना शीलेन तव शोभते ॥ ३३९ ॥


१.'भाषिणा' शा०.