पृष्ठम्:रामायणमञ्जरी.pdf/११४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०५
रामायणमञ्जरी ।


अलक्तकार्द्रललनाचरणाङ्कासु भूमिषु ।
दृश्यते व्याघ्रपदवी सिक्ता हरिणशोणितैः ॥ ३१५ ॥ .
प्रत्यग्राग्रखुरोद्धूतकीर्णकुट्टिमचूर्णकात् ।
भित्त्याग्रविवरात्सर्पाः कृष्यन्ते वनबर्हिभिः ॥ ३१६ ॥
नाट्यवेश्मनिषण्णानां सिंहानां गलगर्जितैः ।
क्रियते घोरगम्भीरमुरजास्फालनभ्रमः ॥ ३१७ ॥
हेमरत्नगवाक्षेषु तन्तुजालवितानके ।
तूर्णनाभैर्विरचिते शेरते धनरेणवः ॥ ३१८ ॥
दृष्ट्वा बिम्बितमात्मानं कुपितैर्वनवारणैः ।
दन्ताघातस्फुलिङ्गाङ्काः क्रियन्ते मणिभित्तयः ॥ ३१९ ॥
रामप्रवासपिशुनां नृपहीनामिमां पुरीम् ।
द्रष्टुं विषादजननीं जननीमिव नोत्सहे ॥ ३२० ॥
नन्दिग्रामे करोम्येष राघवागमनावधि ।
भूभारचिन्ता हृदये मौलौ मूर्ध्नि च पादुके ॥ ३२१ ॥
अभिधायेत्ययोध्यायां निधाय जननीजनम् ।
मुनीनां संमतं प्रायान्नन्दिग्रामं स सानुजः ॥ ३२२ ॥
जटी वल्कलभृत्तत्र ब्रह्मचारी फलाशनः ।
उवाह वसुधां वीरः पूजयनरामपादुके ॥ ३२३ ॥
सिंहासने स विन्यस्य मणिकाञ्चनपादुके ।
सततं सकलास्थाने सिषेवे छत्त्रचामरैः ॥ ३२४ ॥
इति भरतव्रतग्रहणम् ॥ ७ ॥
अथ रामोऽपि संचिन्त्य चिरं लक्ष्मणमब्रवीत् ।
भुक्तं वनमिदं त्यक्त्वा गच्छामः काननान्तरम् ॥ ३२५ ॥
विमलत्वाद्वनस्यास्य संचारापिशिताशिनाम् ।
शनकैर्मुनयः सर्वे वनमन्यमितो गताः ॥ ३२६ ॥
इदं च भरतानीकं मदस्यन्दनवाजिभिः ।


१. 'गजस्यन्दन-' शा०.

१४