पृष्ठम्:रामायणमञ्जरी.pdf/११२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०३
रामायणमञ्जरी ।


कुशैः कल्पय मे शय्यां तपसार्यः प्रसीदति ।
निराहारो निरालम्बस्त्यक्तकर्मा निराश्रयः ॥ २९० ॥
भवाम्येष वने मौनी यावदार्यः प्रसीदति ।
अथ वा भजताभार्यो राज्यं ज्येष्ठक्रमागतम् ॥ २९१ ॥
अहं तु पालयाम्यस्य वनवासव्रतं स्वयम् ।
सुमन्त्रमभिधायेति रामवक्रविलोकिनम् ॥ २९२ ॥
कुशैरास्तरणं भूमौ चकार भरतः स्वयम् ।
तमुवाचाग्रजो भ्राता न तवैतत्कुलोचितम् ॥ २९३ ॥
ब्राह्मणो हि दहत्येव प्रायः शय्याश्रितो जगत् ।
गच्छ मद्वचसा वत्स पाहि धर्मरतः प्रजाः ॥ २९४ ॥
मा भवन्तु कथाशेषा रघूणां कुलसंपदः ।
रामस्येति वचः श्रुत्वा भरतस्य च निश्चितम् ॥ २९५ ॥
भरतप्रेरिताः सर्वे पौरा रामं ययाचिरे ।
ततो भाविकथाभिज्ञविमलज्ञानलोचनाः ॥ २९६ ॥
ऊचुर्मुनीन्द्रा भरतं रामं मा दुर्ग्रहं कृथाः ।
रामः सत्यप्रतिज्ञोऽस्तु राज्यं च भजतां भवान् ॥ २९७ ॥
सत्यव्रतपरिभ्रष्टा क्व दृष्टा रघुसंततिः ।
इत्युक्ते मुनिगन्धर्वसिद्धकिंनरचारणैः ॥ २९८ ॥
बभूव भरतः क्षिप्रं वज्रेणेव समाहतः ।
सोऽपतत्पादयोर्भ्रातुः प्रसीदेति पुनः पुनः ॥ २९९ ॥
वात्सल्यस्याश्रुभिः कुर्वन्नभिषेकक्रिया इव ।
रामस्तमङ्कमारोप्य बभाषे यशसां निधिः ॥ ३०० ॥
त्वत्स्नेहादप्यहं वत्स न सत्यं त्यक्तुमुत्सहे ।
त्वं तु सत्येन महता कुलधर्मेण चामुना ॥ ३०१ ॥
सप्तार्णवप्रणयिनीं शक्तः पालयितुं महीम् ।
गच्छ मद्वचसायोध्यां वैक्लव्यं मा वृथा कृथाः ॥ ३०२ ॥


१. 'म्यद्य शा०. २.'तपसां' शा०.