पृष्ठम्:रामायणमञ्जरी.pdf/१११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०२
काव्यमाला ।


वैराग्यमिव वृद्धानामौचित्यं महतामिव ।
शुचिशीलमिवार्याणां सत्यं राज्ञां विभूषणम् ॥ २७७ ॥
न लोभात्सत्यमुद्द्रष्टुं भगवन्नहमुत्सहे ।
प्राप्ता अपि विनश्यन्ति सत्यहीनस्य संपदः ॥ २७८ ॥
तरङ्गभङ्गुरा भोगाः कार्पण्यमलिनं धनम् ।
कल्पान्तस्थायि धवलं यशः सत्यं च देहिनाम् ॥ २७९ ॥
कृतास्पदानि निम्नेषु न तिष्ठन्त्युन्नते क्वचित् ।
अव्ययप्रलयान्त्येव सलिलानि धनानि च ॥ २८० ॥
सन्तः संतोषविशदा व्रजन्तः सत्यवर्त्मना ।
धनैरधमसंधार्यैर्विदार्यन्ते न धीधनाः ॥ २८१ ॥
राज्यं विरजसामेव शोभते सत्यवादिनाम् ।
असत्यपङ्कमलिना विभूतिः कोपयुज्यते ॥ २८२ ॥
इति ब्रुवाणमसकृद्वसिष्ठस्तपसां निधिः ।
उवाच रामं वात्सल्यादिक्ष्वाकूणां परायणम् ॥ २८३ ॥
प्रजाहितार्थमुचितं राम जाबालिनोदितम् ।
न हि जानाति धर्मस्य गतिमेष सनातनीम् ॥ २८४ ॥
मनुवंशक्रमायातं त्याज्यं राज्यं निजं न ते ।
रघूणां ज्येष्ठभागिन्यः सर्वदैव विभूतयः ॥ २८५ ॥
कुलाचारं समुत्सृज्य न स्थितिं हातुमर्हसि ।
जन्म प्रजापरित्राणपरतन्त्रं हि भूभुजाम् ॥ २८६ ॥
वेदाचारव्रता विप्राः सन्तः सच्चरितव्रताः ।
कुरु मे वचनं राम जनन्याश्च कुलोचितम् ॥ २८७ ॥
न हि मां पितुराचार्यमवमन्तुमिहार्हसि ।
वसिष्ठस्येति वचनं रामो दृढविनिश्चयः ॥ २८८ ॥
निशम्य सत्यं न त्याज्यं मयेत्यूचे पुनः पुनः ।
ततो जगाद भरतः सुमन्त्रं व्यथितेन्द्रियः ॥ २८९ ॥


१. 'स्रष्टुं' शा०. २. 'न्ये' शा०. ३. 'भर्तृसेवाव्रता नार्यो भूपालाः पालनव्रताः' शा०.