पृष्ठम्:रामायणमञ्जरी.pdf/११०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०१
रामायणमञ्जरी ।


कथं दशरथस्यान्ते राज्यं त्यजसि निःसुखः ।
तव तस्य च संबन्धो नेदानीं भिन्नवर्त्मनोः ॥ २६४ ॥
अस्मिन्नल्पसुखे नित्यं बहुदुःखे च जीविते ।
सुखलेशं समादाय वर्तते कुशलः किल ॥ २६५ ॥
धनाशौचशरीराणि निघृष्यन्ते यथा यथा ।
तथा तथा भृशं तेभ्यो दुःखमेव प्रजायते ॥ २६६ ॥
यथा कण्टकशाखादि त्यज्यते पुष्पिताद्वनात् ।
धर्मपुष्पार्थिना तद्वत्संत्याज्यः क्लेशविस्तरः ॥ २६७ ॥
धर्मस्कन्धः प्रवृद्धोऽयं कुटिलो ह्यतिकर्कशः ।
सन्तस्तस्मिन्न सज्जन्ति हेलया तत्फलेप्सवः ॥ २६८ ॥
धर्मतन्त्रमविज्ञाय निर्बन्धादात्मपीडया ।
पाठमात्ररता एव न मूर्खाः सुखभागिनः ॥ २६९ ॥
बहुदानसुखे राज्ये जनत्राणमहाफले ।
वाङ्मात्रसंयमैः कस्माद्विमुखोऽसि महामते ॥ २७० ॥
समन्युर्लक्ष्यते कस्मान्न मयोक्तोऽसि नास्तिकम् ।
धर्मं भजन्ते कुशला विवेश्य गुरुलाघवम् ॥ २७१ ॥
इति जाबालिवचनं निशम्य रघुनन्दनः ।
उवाचान्तर्लसत्कोपो मुनिगौरवयन्त्रितः ॥ २७२ ॥
भगवन्नतिवात्सल्यादस्माकं स्निग्धचक्षुषा
उपपत्येव घटितं केवलं भवतोदितम् ॥ २७३ ॥
सत्यच्युतेनाशुचिना किं मनुष्येण कारणम् ।
पात्रेणेवास्तदीपेन कायेनेव गतासुना ॥ २७४ ॥
पुंसः सत्यविहीनस्य सत्त्वभ्रष्टस्य किं श्रिया ।
अन्यस्य चन्द्रकान्त्येव मालयेव गतायुषः ॥ २७५ ॥
राजा चेद्धर्ममर्यादां लोभादुत्क्रम्य वर्तते ।
उन्मूलोपप्लवेनैताः सर्वथा निहताः प्रजाः ॥ २७६ ॥


१.'र्म' शा०.