पृष्ठम्:रामायणमञ्जरी.pdf/१०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

रामायणमञ्जरी । ९९

धनं विभूतयो योगाः प्रीतयः प्रियसंगमाः ।
आयूंषि च पतन्त्येव क्षयचक्रे शरीरिणाम् ।। २३८ ॥
स्वभाव एष भावानां यदभावातिपातिनः ।
आयुषश्च स्वभावोऽयं सर्वथा यद्विपद्यते ॥ २३९ ॥
न मे कश्चिदुपायोऽस्ति शक्तिः संक्षयदीक्षिता ।
अधो विधीयते येन कालस्याग्नेरिवोद्गतिः ॥ २४० ॥
तस्यास्य तव चासक्तं ममान्येषामथात्मनः ।
क्षयं सर्वात्मना ज्ञात्वा सन्तः स्वस्थवदास्थिताः ॥ २४१ ॥
अभावावधयो भावा निधनावधि जीवितम् ।
अविवेकस्त्वनवधिर्येनायं जायते भ्रमः ॥ २४२ ॥
धर्मोपदिष्टेन पथा यातः स सुकृती दिवम् ।
न नः शोच्यः पिता यस्य यशःपुण्यमिवाक्षयः ॥ २४३ ॥
मया तु शासनं तस्य न त्याज्यं सत्यवर्तिना ।
को हि सत्यधनो नाम सत्यमेव समुत्सृजेत् ॥ २४४ ॥
राघवेणेत्यभिहिते सत्यपारं तितीर्षुणा ।
उवाच साश्रुनयनः शोकान्तो भरतस्तथा ॥ २४५ ॥
आर्य प्रसीद पापस्य ममाविज्ञातपातिनः ।
मां समुद्धर कैकेय्या क्षिप्तं किल्बिषकर्दमे ॥ २४६ ॥
ईप्सितं शासनं कार्यं गुरोरिति जनश्रुतिः ।
प्राणत्यागप्रमाणं तु नेष्टं ते गमनं पितुः ॥ २४७ ॥
कुटिलोऽयमसत्सेव्यः पन्थास्तव तपस्विना ।
जनत्राणप्रणयिनी यदियं क्षत्त्रसंततिः ॥ २४८ ॥
अथ चेद्धेतुनिर्बन्धः प्रजानामेव पातकैः ।
अरण्ये विवृतास्येव तदहं त्वामनुव्रतः ॥ २४९ ॥
इति ब्रुवाणमसकृद्भरतं दृढनिश्चयम् ।
अपूजयञ्जनाः सर्वे कैकेय्याद्याश्च मातरः ॥ २५० ॥


१. 'भो शा०. २. 'व' शा०.३. 'र्त्तो' शा०. ४. 'त्वद्ग' शा०. ५. 'चराम्ये' शा०.