पृष्ठम्:रामायणमञ्जरी.pdf/१०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९८
काव्यमाला ।


प्रातः समुपविष्टेऽथ वशिष्ठप्रमुखैः सह ।
रामे सभार्ये भरते वक्तुकामे पुरःस्थिते ॥ २२५ ॥
किं वक्ष्यतीति निःशब्दे सोत्कण्ठे स्तिमिते जने ।
निवातनिस्तरङ्गस्य जलधेरुपमां दधे ॥ २२६ ॥
उवाच भीरुर्गम्भीरजलधिध्वानधीरया ।
गिरा गुरुजनानम्रो भ्रातरं भरतः शनैः ॥ २२७ ॥
नेयमार्यस्य पुरतो मम वक्तुं प्रगल्भता ।
सहजप्रणयस्यायमुत्सेको भक्तिसंभवः ॥ २२८ ॥
यशःशेषे नरपतौ निःशेषगुणमण्डने ।
अशेषेयं वसुमती वोढारं त्वां समीहते ॥ २२९ ॥
स ददौ यदि मे राज्यं राजा योषिद्वशीकृतः ।
तत्कथं स्वस्थमनसो ममापि मतिविप्लवः ॥ २३० ॥
तव क्रमागतं राज्यं का स्पृहा राम मादृशाम् ।
कथं न स्कन्धमाधत्ते दिक्कुञ्जरपदे मृगः ॥ २३१ ॥
सत्यं त्वत्पादसेवैव राज्यं विरजसो मम ।
न राज्यं प्राप्तुमर्होऽहं सोमं शूद्र इवाध्वरे ॥ २३२ ॥
लोकप्रदीपे कालेन शान्ते तस्मिन्महीपतौ ।
आर्य प्रजाः प्रतीक्ष्यन्ते सूर्यस्येव तवोदयम् ॥ २३३ ॥
राज्यं परित्यक्तं त्वया तातस्य शासनात् ।
मयोपनीतं दासेन तदिदं प्रतिगृह्यताम् ॥ २३४ ॥
प्रसीद पालय विभो नाथहीनां महीमिमाम् ।
विपदं विस्मरत्येष जनो राजवियोगजाम् ॥ २३५ ॥
भरतेनेत्यभिहिते समस्तजनसंमते ।
रामः सत्यसुधां दन्तत्विषा वर्षन्निवाभ्यधात् ॥ २३६ ॥
संचयानां क्षयोऽवश्यं निपातोऽवश्यमुन्नतेः ।
सङ्गानां विरहोऽवश्यमवश्यं मृत्युरायुषः ॥ २३७ ॥


१.'मा' शा०. २. 'मग' शा०. ३. 'षे' शा०.