पृष्ठम्:रामायणमञ्जरी.pdf/१०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

रामायणमञ्जरी । ९७

इति प्रलापमुखरे रामेऽपि धृतिसागरे ।
सावेगं रुरुधुः सर्वे प्रसरद्वाष्पनिर्झराः ॥ २१२ ॥
ततो रामं समाश्वास्य सुमन्त्रः सानुजं शनैः ।
निनाय जाह्नवीकूलं पितुर्दातुं जलाञ्जलिम् ॥ २१३ ॥
बदरेङ्गुदिपिण्याकं तत्र दर्भेषु राघवः ।
निक्षिप्योवाच निःश्वस्य ध्यायञ्जलभृताञ्जलिः ॥ २१४ ॥
इदं ते वन्यमशनं प्रसीद पृथिवीपते ।
एतदर्हाः खलु वयमेतेनैव यजामहे ॥ २१५ ॥ ॥
एवं ब्रुवाणः काकुत्स्थः सानुजो विहितोदकः ।
गत्वाश्रमं शुचाक्रान्तो हा तातेति वदन्मुहुः ॥ २१६ ॥
रुदतां राजपुत्राणां तत्र तेषां महास्वनम् ।
समाकर्ण्याययुः सर्वे पौरमुख्याः ससैनिकाः ॥ २१७ ॥
यथोचितेन विधिना राघवेणाभिनन्दिताः ।
निजोचितेषु देशेषु सर्वे ते समुपाविशन् ॥ २१८ ॥
अथाययुर्वशिष्ठेन सहिता राममातरः ।
पश्यन्त्यो राघवप्रीत्या राघवाध्युषितं वनम् ॥ २१९ ।।
तत्र भागीरथीतीरे रामेण विहितं पितुः ।
बदरेङ्गुदिपिण्याकं दृष्ट्वा ताः शुशुचुर्भृशम् ॥ २२० ॥
जननीजनमालोक्य वसिष्ठं चाप्युपागतम् ।
प्रणनाम निजं नाम रामः स्वयमुदाहरत् ॥ २२१ ॥
ततस्तं चरणालीनजटामण्डलमाकुलाः ।
जनन्यः पाणिकमलैर्ललाटे जगृहुर्मुहुः ।। २२२ ॥
दृष्ट्वा शशाङ्कवदनां सीतां वल्कलधारिणीम् ।
क्षणं मुमोह कौसल्या सुमित्त्रा धृतविग्रहा ॥ २२३ ॥
तेषां दुःखकथासक्तचेतसां साश्रुचक्षुषाम् ।
अवश्यायकणोद्वाष्पा प्रययौ यामिनी शनैः ॥ २२४ ॥

१. 'न्ना' शा०. २. 'तैरे' शा०.