पृष्ठम्:रामायणमञ्जरी.pdf/१०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९६
काव्यमाला ।


श्रुत्वेति वचनं भ्रातुर्भरतो विगतस्पृहः ।
उवाच धर्महीनस्य न मे राज्यस्य कारणम् ॥ १९९ ॥
अहो बतातिपापस्य दृढता कियती मम ।
यस्त्वामेवंविधं दृष्ट्वा दुःसहं वक्तुमुद्यतः ॥ २०० ॥
अयोध्यां स्वयमभ्येत्य भज राज्यं क्रमागतम् ।
स ते यातः पिता स्वर्गं धर्ममार्गनिरर्गलम् ॥ २०१ ॥
अहो निन्द्यतरं जन्म मम किल्बिषकारिणः ।
योऽहं नरेन्द्रनिधने त्वत्प्रवासे च कारणम् ॥ २०२ ॥
आर्य त्वयि वनं याते शोकाग्निमिव शोणितम् ।
वसन्व्यसुरभूद्भूमौ त्वामेव विलपन्नृपः ॥ २०३ ॥
निधनेन धराभर्तुरयोध्या न विराजते ।
सुमेरुशृङ्गभङ्गेन दारितेव वसुंधरा ॥ २०४ ॥
गतेऽनन्तगुणे राज्ञि स्वर्गं मज्जति मेदिनी ।
भोगेन्द्रविपुले दोष्णि यद्यार्येण न धार्यते ॥ २०५ ॥
अधुना क्रियतामार्य वत्सलस्य पितुः क्रिया ।
प्रियपाणिच्युतं वारि वाञ्छन्ति पितरोऽधिकम् ॥ २०६ ॥
श्रुत्वेति वज्रसंपातदुःसहं राघवो वचः ।
पपात पादप इव क्षतः कूलंकर्जलैः ॥ २०७ ॥
स लब्धसंज्ञः शनकैरुवाचाकुलितः शुचा ।
हा नाथ क्व नु यातोऽसि त्यक्त्वासान्देहि नो वचः ॥ २०८ ॥
अस्मदर्थपरित्यक्तजीवितस्याधुना तव ।
ददातु नाम रामस्ते निःसंज्ञः कथमञ्जलिम् ॥ २०९ ॥
हा कीर्तिनिर्झरगिरे गुरो गुणमहोदधे ।
द्रक्ष्यामि ते क्व नु मुखं प्रियं श्रोष्यामि वा वचः ॥ २१० ॥
स पिता तव सौमित्त्रे वैदेहि श्वशुरस्तव ।
महीनाथो गतः स्वर्गमनाथाः सर्वथा वयम् ॥ २११ ॥


१. 'त्येन' शा०.