पृष्ठम्:रामायणमञ्जरी.pdf/१०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९५
रामायणमञ्जरी ।


कच्चित्प्रयासि विदुषामुपदेशविधेयताम् ।
कच्चिदूर्णायुपूर्णेव सभा मूर्खैर्वृता न ते ॥ १८७ ॥
सदानिमित्तपिशुनाः क्रूरा दोषावलोकिनः ।
राजश्रीरजनीधूकाः खलाः कच्चिन्न ते प्रियाः ॥ १८८ ॥
दम्भारम्भसमाधाननिसङ्गनिभृता इव ।
कच्चिन्न ते त्वां मुष्णन्ति धूर्ताः श्रीसरसीबकाः ॥ १८९ ॥
कच्चिदाखुखुरोत्खातभुक्तबीजेव मेदिनी ।
सुषिरीक्रियते चौरैर्नाधिकारिगणैस्तव ॥ १९० ॥
ललभावदनाम्भोजविभ्रमभ्रमरावली ।
कच्चिन्न सक्ता दृष्टिस्ते नान्यकार्याणि पश्यति ॥ १९१ ॥
कच्चिदाकर्ण्य सुलभं लोभं परिभवास्पदम् ।
केवलं त्यक्तसत्कार्यैः कदर्यैः सह पश्यसि ॥ १९२ ॥
कच्चित्प्रजाः प्रजानाथ नोग्रदण्डेन बाधसे ।
शरणं नास्ति लोकेषु परित्राता निहन्ति चेत् ॥ १९३ ॥
कच्चिदधर्ममर्यादामुत्क्रम्यार्थान्समीहसे ।
धनं धनं कदर्याणां धर्मस्तु महतां धनम् ॥ १९४ ॥
मूढव्यसनकारिण्यो विकारिण्यः सविभ्रमाः ।
चिरं परिचिताः कस्य वेश्या इव विभूतयः ॥ १९५ ॥
श्रियो धर्मविरोधिन्यो धर्माः संपद्विनाशनाः ।
धर्मार्थोत्सादिनः कामा न भवन्ति महात्मनाम् ॥ १९६ ॥
दानं प्रजापरित्राणं यजनं धर्मरञ्जनम् ।
राज्यकल्पद्रुमस्यैता विपुलाः फलसंपदः ॥ १९७ ॥
ब्राह्मणेषु परा भक्तिः प्रभुशक्तेर्विभूषणम् ।
सा हि धर्मार्थकामानां राज्ञां रक्षामहौषधम् ॥ १९८ ॥
इति कच्चित्कम् ॥ ५ ॥


१. 'सदा निमित्रपि' स्यात् । 'नितरां मित्रस्य सूर्यस्य द्वेषिणः' इति व्याख्यातव्यम्.